पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्ट्वा तद्व्यसनं स्मृत्वा दैवतन्त्रं च विस्मितौ उवाच लक्ष्मणं रामः *मुखेन परिशुष्यता । परिशुष्यता मुखेन उपलक्षित लक्ष्मणं इत्यन्वयः ॥ ४६ ॥ ६९ सर्ग:] कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं, सत्यविक्रम ! ॥ ४७ ॥ व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् । कृच्छादित्यादि। हे सत्यविक्रम ! दारुणं कृच्छ्रात् कृच्छ्रतरं- राज्यअंशपूर्वकवनवासदुःखं प्रियापहारान्तं प्राप्यापि स्थितयोः पुनश्च तां प्रियां अप्राप्यैव व्यवस्थितयोः जीवितान्ताय च व्यसनं – दुःखं 485 प्राप्तम् ॥ ४७ ॥ कालस्य सुमहद्वीर्यं सर्वभूतेषु, लक्ष्मण ! ॥ ४८ ॥ त्वां च मां च, नरव्याघ्र ! व्यसनैः पश्य मोहितौ । यदेवमतः - कालस्येत्यादि । लक्ष्मण ! सर्वेष्वपि भूतेषु कालस्य वीर्यं सुमहत्--निरर्गलप्रचारम् । कुतः ? यतः-- - त्वां चेत्यादि । महाबलपराक्रमावपीत्यर्थः । मोहिताविति । करोतीति शेषः ॥ ४८ ॥ + ' न हि भारोऽस्ति दैवस्य सर्वभूतेषु, लक्ष्मण ! ॥ ४९ ॥ शूराथ बलवन्तथ कृतास्त्राच 'रणाजिरे ।

  • कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥ ५० ।।

उक्तार्थस्यैव प्रपञ्चनं--न हीत्यादि । ४९-५० ।।

  • परिशुष्यता मुखेनोपलक्षित: राम उवाच - रा. उत्तरवाक्यानुसारादेवं

भ्याख्यातम् । तत्चत्कर्मपरिपाककाले तत्तत्फलमवश्यमनुभाव्यमेव । मतद्विधये दैवं अधिकमारं न वहस्येवेति भावः ॥ 'नातिभारो-ङ, महारणे-ङ. 2 3 काळावपना:-ङ,