पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० सर्ग:] तस्य रामो भुजं वामं सव्यं चिच्छेद लक्ष्मणः तिष्ठतः किं नु मां दृष्ट्वा क्षुधातं क्षत्रियर्षभौ । ॐ आहारार्थ तु संदिष्टौ दैवेन 'गतचेतसौ ॥ २ ॥ तिष्ठत इत्यादि । क्षुघार्तं मां दृष्ट्वा भीतौ किं नु तिष्ठतः? व्यर्थमेव, न तु जीवनपरिहार इत्यर्थः । यतो गतचेतसौ युवां मे दैवेन आहारार्थ संदिष्टौ ॥ २ ॥ 12407 तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचार्ति समापनः विक्रमे कृत लक्षणः ॥ ३ ॥ त्वां च मां च पुरा तूर्ण आदत्ते राक्षसाधमः । तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ॥ ४ ॥ आदत्ते पुरा – आदास्यतीत्यर्थः ॥ ४ ॥

487 भीषणोऽयं महाकायः राक्षसो * भुजविक्रमः । लोकं # ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥ ५ ॥ भुजमात्रेण विक्रमो यस्य स तथा । लोकं प्राणिजातम् ॥

  1. निश्रेष्टानां वधो, राजन् ! कुत्सितो 'जगतीपतेः ।

'ऋतुमध्योपनीतानां पशूनामिव, राघव ! ॥ ६ ॥ 6 बाहू छिन्दावहै' इत्यत्र हेतु:–भुजविक्रम इति । यतोऽस्य पराक्रमः भुजयोरेव, अतस्तयोश्छेदनेऽयं हृत एवेति भावः । + अतिजितं— अत्यंतजितम्-गो. एवं सर्वजयाइ पैंतोऽयमिति भावः । भुजच्छेदनमात्रं कर्तव्यं, न तु मारणमित्याह- निश्चेष्टानामिति । निश्चेष्टानां प्रतीकाराशक्तानाम् । जगतीपते:- क्षत्रियस्य क्षत्रियकर्तृक इति यावत् । ऋतुमध्योपनीतानामिति निश्चेष्टानामित्यस्मिन्नर्थे प्रयुक्तम् । यद्वा 'पर्यनि- कृतानारण्यानुत्सृजन्त्यहिंसायै' इत्युक्तरीत्या अश्वमेधकतौ उपनीतानामारण्यपशूनां वधः कुत्सित एव - गो. ऋतुमध्यापनीतानां -- ऋतुमध्यादन्यत्र नीतानाम् । क्रत्वन भूतानामिति 1 इतचेतसौ-ङ. इतचेतनौ-ज. 2 निश्चय:- ज. 3 महाबाहुः - ङ. 'झपजितं- ङ. 5 जगतीपते- ङ. ऋतुमध्याप-ज.