पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एष पन्थाः यत्र पम्पासरी वृक्षाश्च पुषिताः फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः । तदतिक्रम्य, काकुत्स्थ ! वनं पुष्पितपादपम् ॥ ६ ॥ नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव । 'सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः ॥ ७ ॥ सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा । फलभारानतास्तत्र महाविटपधारिणः ॥ ८ ॥ शोभन्ते 2 सर्वतस्तत्र : मेघपर्वतसन्निभाः । तानारुह्याथवा भूमौ पातयित्वा यथासुखम् ॥ ९ ॥ ७३ सर्गः] फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति । चङ्क्रमन्तौ वरान् देशान् शैलाच्छैलं बनाद्वनम् ।। १० ।। ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः । 'अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥ ११ ॥

राम ! सञ्जातवालुकां कमलोत्पल शालिनीम् । (समे-समभूमौ !) चकमन्तौ - चक्रममाणाविति यावत् । - - पुष्करिणीं – नदीमित्यर्थः । अविभ्रंशां - शैवालाद्याश्लेषतः पादादि- भ्रंशाहेतुभूताम् । समतीर्था - समावताराम् । सञ्जातवालुकामिति दीर्घः छान्दसः ॥ १०-११ ।।

  • अविभ्रंशां— शैवालासम्बन्धेन

पतनकारक: कर्दमः तीरे यस्य ताम्-रा. अवतारस्थले अतिनिम्नत्वात्यगाधत्वरहितां - गो. 2 तरव- ङ. 1 सर्वकालफला यत्र - ज. 507 शोमिताम्-ज. पादभ्रंशाहेतुम् - ति. न विभ्रंश: – अथ: अविभ्रंशां-अशिथिलतटाम् । समतीर्था - 3 महापर्वत- ङ. मालिनीम् - ङ,