पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋष्यमूकपरथानं शबरीदर्शनं च अरण्यकाण्ड: अथ शबरांसंदर्शनपूर्वं तस्याः ब्रह्मलोकप्रदानम् । तौ कबन्धे- नेत्यादि । यः कथितः, तं कथितं मार्गमिति योजना ॥ १ ॥ 516 तौ शेलेष्वा'चितान् वृक्षान् * क्षौद्रकल्प'फलान् बहून् । बीक्षन्तौ जग्मतुः द्रष्टुं सुग्रीवं रामलक्ष्मणौ || २ || आनितान्--आहृतान् ॥ २ ॥ कृत्वा च शैलपृष्ठेषु तौ वासं रघुनन्दनौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः || ३ || तौ पुष्करिण्याः पम्पायाः तीरमासाद्य पश्चिमम् । अपश्यतां ततस्तत्र 'शबर्याः रम्यमाश्रमम् ।। ४ ।। तो तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् । सुरम्यमभिवक्षन्तौ शबरीमभ्युपेयतुः ॥ ५ ॥ तौ तमाश्रमं – शबर्याश्रममित्यर्थः ॥ ५ ॥ तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः । रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ॥ ६॥

  • क्षौद्रं – मधु, तत्तुस्यरसफलवत इत्यर्थः ॥

' चितानेकान्-ङ. 2 फलद्रुमान्-ङ.. देशं-ङ. शबरीमाश्रमस्थिताम्-ड.. 4