पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

518 ऋऋष्यमूकप्रस्थानं शबरीदर्शन च 1 अद्य मे सफलं ' तप्तं *2 स्वर्गश्रेह भविष्यति । त्वयि देववरे, राम ! पूजिते, पुरुषर्षभ ! ॥ १२ ॥ स्वर्ग:-

– परमः । देववरे-देवरले ब्रह्मणीत्यर्थः ।। १२ ।।

'चक्षुषा तव सौम्येन पूताऽस्मि, रघुनन्दन ! 8 गमिष्याम्यक्षयान् लोकान् त्वत्प्रसादादरिन्दम ! ॥ १३ ॥ त्वत्प्रसादात् अक्षयान् लोकान् गमिष्यामीति- ब्रह्मणः तवानुमत्या सर्वाविवादोऽक्षयत्वादिस्वभावान् ब्रह्मलोकान् गमिष्यामी- त्यर्थः ॥ १३ ॥ [ अरण्यकाण्ड: चित्रकूटं स्वयि प्राप्ते विमानैरतुलप्रमैः । इतस्ते दिवमारूढाः यानहं पर्यचारिपम् ॥ १४ ॥ चित्रकूटं त्वयि प्राप्ते इति । त्वदासक्तिवैभवमात्रादेवेत्यर्थः । इतस्त इति । अस्मादाश्रमादित्यर्थः । त इति के? इत्यतः यानित्यादि ॥ १४ ॥ तैश्वाहमुक्ता धर्मज्ञैः महाभागै मेहपिंभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ।। १५ ।। स ते प्रतिगृहीतव्यः सौमित्रिसहितोऽतिथिः । तं च दृष्ट्वा वरान् लोकान् अक्षयांस्त्वं गमिष्यसि ।। १६

  • स्वर्गः – ब्रह्मलोकः - ति

1 जन्म-ड. पानद-ड., ज. 2 स्वर्गश्चैव-ड. • मैहात्मभिः - ङ. 3 तवाहं चक्षुषा राम पूता सौम्येन