पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋष्यमूकप्रस्थानं शबरीदर्शनं च अरण्यकाण्ड: नित्यं विज्ञाने अबहिष्कृतां इति । वाचक्रवी मैत्रेय्यादिवत् विरक्तजकुलस्त्रीत्वात् ब्रह्मविद्यायामध्यधिकारस्य अविवादात् । वचु श्रीबृहदारण्यमङ्गलाचरणे श्रीहंसभाध्ये च प्रतिपादितम् ।। १८ ।। 520 5 दनोः सकाशात् तश्वेन प्रभावं ते ' महात्मनाम् ॥ १९॥ श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे । महात्मनामिति । त्वदाचार्याणामिति शेषः । प्रत्यक्षमिच्छामीति । कर्तुमिति शेषः । संद्रष्टुं यदि मन्यसे इति । संदर्शयितुं यदि योग्यं मन्यसे इत्यर्थः ।। १९ ।। एतत्तु वचनं श्रुत्वा रामवक्ताद्विनिःसृतम् ॥ २० ॥ शबरी दर्शयामास तावुभौ तद्वनं महत् । पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ॥ २१ ॥ मतङ्गवनमित्येव विश्रुतं, रघुनन्दन ! मेघघनप्रख्य–मिह सेचने, उणादिः, बाहुलकात् घत्वम्, वषुकघनवत् नीलाममित्यर्थः । मतङ्गवनमिति तत् स्वभूतं तत्तपोमझिम- नित्यरक्षितं चत्यर्थः ॥ २१ ॥

  • दनोः सकाशात् -दनो: पुत्रस्य मुखतः श्रुत महात्मनां प्रभाव प्रत्यक्षं

संद्रष्टुमिच्छामि। यदि मन्यसे- यदीच्छसीति यावत् । 1 मेषषनप्रख्यं -निविड- मेघसदृशं - रा. घनमेधसदृशं - गो. "महात्मन:-क.