पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

524 ऋष्यमूक प्रस्थानं शबरीदर्शनं च [भरण्य काण्ड: कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ॥ २८ ॥ तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत् कलेचरम् । उपसंहरति — कृत्स्नमित्यादि । अभ्यनुज्ञातेति । ब्रह्मणा त्वया इति शेषः ॥ २८ ॥ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ॥ २९ ॥ मुनीना'माश्रमो येषां अहं च परिचारिणी । -1 मुनीनां भावितात्मनां – येषां ऋषीणां अयमाश्रमः, येषां चाहं परिचारिणी, तेषां भावितात्मनां - खतत्त्वतया सादरसाऽनुसंहित- परमात्मनां मुनीनां-ब्रह्मलोकगतानां समीपं गन्तुमिच्छामि इति च अब्रवीत् ॥ २९ ॥ ॥ धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः ॥ ३० ॥ प्रहर्षमतुलं लेभे * आश्चर्यमिति 'तन्त्रतः । इति — श्रुतार्थमुद्दिश्येति शेषः ॥ ३० ॥ तामुवाच ततो रामः 'श्रमणीं संशितव्रताम् ।। ३१ ।। अर्चितोऽहं त्वया 'भक्तथा गच्छ कामं 'यथासुखम् । इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा ॥ ३२ ॥

  • आश्चर्यमित्यब्रवीश्च - रा. तस्वत: - वस्तुत: आश्चर्यमिति अतुलं प्रहर्ष लेमे ॥

2 धर्मिष्ठाया- ङ. चाब्रवीत्-अ. शबरी-ज. 3 माश्रमे ङ. ● तपोषने- ङ. 9 भद्रे-ज.