[३]भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु, परन्तप ! ॥
तस्य शाप निमित्तमाह - इतीत्यादि । • स्वर्गं गमिष्यतीति स वैश्रवणो राजा अब्रवीदिति पूर्वेणान्वयः । ' इति संक्रुद्धो व्याजहार' इति अग्रेण चान्वयः । इतिशब्दः प्रकृतावमर्शकः । ततश्च इति व्याजहार – रक्षोयोनिं प्रविशेति क्रुद्धः शापवचनं व्याजहारेत्यर्थः । क्रोधहेतुमाह — अनुपस्थीयमान इति - यथाकालमकृतोपस्थान इत्यर्थः । तत्र च हेतु: रम्भासक्तमिति । रम्भा - प्रसिद्धाप्सराः । स्वं भुवन-स्वलोकं, 'विष्टपं भुवनं जगत्' । इति वैश्रवणो राजा रम्भासक्तं पुरानघ ! अनुपस्थीयमानो मां संक्रुद्धो व्याजहार ह" इति पाठं पश्यामः । अत्र पाठान्तरं पठित्वा मिथ्याक्लेशमन्वभूत् योजने चान्यः [४]।। १९ ।।
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् || २० ||
अध्यर्धयोजने, तात ! महर्षिः सूर्यसंनिभः ।
अध्यारूढमर्षं यस्मिन् तदध्यर्थं । सार्धयोजन इति यावत् ॥
- ↑ अर्धयोः पौर्वापयें वैपरीत्यं-ङ.
- ↑ इह- ङ.
- ↑ भवनं - ङ.
- ↑ अत्र 'अनुपस्थीयमानः' इत्यधीनन्तरं इति वैश्रवणः' इत्यर्ध गो. ती. पठयते ।रम्भाऽऽसक्तं पुराऽनव ! ' इति स्थाने रम्भासक्तमुवाच ह ' इति च । संक्रुद्ध: राजा - वैश्रवणो राजा राक्षमो भवेति व्याजहार, प्रसाद्यनानश्च इत्यब्रवीत् - उक्तप्रकारेण शापावसानं चोवाच - इति च व्याख्यातम् ।
- ↑ ते-त्वत्तः श्रेय:- ब्रह्मलोकं विधास्यति-पोषयिष्यति ।
यद्वा ते श्रेय:- निवास स्थान प्रवेशनादिकम् - गो - ↑ भिडधास्यति - ङ. ज.