पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ सर्ग:]
25
स्वस्य शापकथामुक्ता विराध: स्वर्गमारुहत्



अवटे चापि मां, राम ! प्रक्षिप्य कुशली व्रज |
रक्षसां [१] गतसचानां एष धर्मः सनातनः ॥ २२ ॥

 अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ।

 गतसत्त्वानां-गतप्राणानां । एष धर्मः इति । अवटनिक्षेप धर्म इत्यर्थः । सनातन इति - तथा हि - यवनेषु कलियुगराक्षसेषु तद्धर्मप्रवृत्तिः सनातना । उक्तार्थस्यैव विवरणं – अवट इत्यादि । य इति-मृता राक्षसा इत्यर्थः । लोका इति निर्ऋतिलोका इति यावत् ॥ २२ ॥

एवमुक्ता तु काकुत्स्थं विराधः शरपीडितः ॥ २३ ॥
[२]बभूव स्वर्गसंप्राप्तः न्यस्तदेहो महाबलः ।

 न्यस्तदेह इति। अवटे निक्षिप्तदेह इत्यर्थः । तेन संस्कारेण स्वर्गं संप्राप्तः - 'द्वितीयाश्रिते 'ति नदन्तविध्याश्रयेण समासः छान्दसः ॥ २३ ॥

तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह || २४ ||
[३]कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य, लक्ष्मण !
[४]वनेऽस्मिन् सुमहत् श्वयं खन्यतां रौद्रकर्मणः ॥ २५ ॥

 एवं बभूवेत्याद्यर्धेन संक्षिप्तस्यार्थस्य विस्तरोपदेशः - तच्छुत्वे- त्यादि । अवटनिक्षेपधर्मेण स्वर्गप्राप्तिवचनं श्रुत्वेत्यर्थः । कुञ्जर- स्येवेति - दुर्गन्धपरिहाराय मृतकुञ्जरस्य स्खननार्थमिवेत्यर्थः ॥ २५ ॥



  1. हत - ड़
  2. स्वर्गसंप्राप्तः – संप्र प्तप्राय इत्यर्थ:- गो. बभूव - भवितुमुद्यतो बभूव-ति.
  3. २५-२६ - श्लोकद्वयं नास्ति-झ.
  4. महतः-ड.