पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
28
[अरण्यकाण्डः
विराधखननम्



 तदेव भाषितमिति-विराधोक्तरूपमित्यर्थः । रामेण बलेन इति कर्तृकरणयोस्तृतीये ॥ ३२ ॥

 [१].प्रह्रुष्र्रूपाविव रामलक्ष्मणौ
विराधमुर्व्याः प्रदरे निहत्य तौ ।
[२]ननन्दतुर्वीतभयौ महावने
शिलाभिरन्तर्दधतुश्च राक्षमम् ॥ ३३ ॥

 प्रहृष्टरूपाविव – इवशब्दः इह एवार्थे ॥ ३३ ॥

ततस्तु तौ काञ्चनचित्रका को
निहत्य रक्षः परिगृह्य मैथिलीम् ।
विजइतुस्तौ मुदितौ महावने
दिवि स्थितौ [३] चन्द्रदिवाकराविव || ३४ ।।

 इत्यार्षे श्रीमद्रामायणे वाल्मीकी ये अरण्यकाण्डे चतुर्थः सर्ग:



 महावने दिवि स्थितौ चन्द्रदिवाकराविव विजहतुः इति । आकाशवत् वनस्य च नीलत्वात् अतिविशालत्वाच्च उपमा । लीला (३३)मानः (१) सर्गः ॥ ३४ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे चतुर्थ: सर्ग:



  1. वस्तुत: हर्षशोको अनयोर्न स्तः, किन्तु तन्नटनमात्रमिति इवशब्देन सूचयति-
    गो. इवशब्द एवार्थे-रा
  2. अत्र 'शिलामिरन्तर्दधतुश्च राक्षसम् ' इति चतुर्थः पादः, एवं
    ततस्तु तौ काञ्चनचित्र कार्मुको निहत्य रक्षः परिगृद्ध मैथिलीम् । विजहतुस्तौ मुदितौ
    महावने ' इति अनन्तर श्लोकाच पादत्रयं च क्वचित् न पठेयते ।
  3. उभावपि चन्द्रवत् कलासंपन्नौ, सूर्यवत् प्रतापयुक्तौ-ति.