पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
30
[ अरण्यकाण्ड:
शरभङ्गदर्शनम्


[१].अवरुह्य रथोत्सङ्गात् सकाशे विबुधानुगम् ॥ ५ ॥
[२] असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ।

 रथोत्सङ्गादवरुह्यापि वसुधां अस्पृशन्तं, सका शे-समीपे, विबुधानुगं - विबुधाः - देवाः, तद्रूपाः अनुगाः- अनुचराः यस्य स तथा, अत एव विबुधेश्वरम् ।। ५ ।।

[३]सुप्रभाभरणं देवं विरजोम्बरधारिणम् ।। ६ ।।
तद्विघैरेव बहुभिः पूज्यमानं [४]. महात्मभिः ।

 सुप्रभान्याभरणानि यस्य स तथा । विरजस्कं- निर्मलं अम्बरं घर्तुं शीलमस्येति स तथा । तद्विधैः- तद्विघाभरणादिमद्भिः ॥

[५][६] हरिभिर्वाजिभिर्युक्तं अन्तरिक्षगतं रथम् ॥ ७ ॥ [७].ददर्शदूरतस्तस्य तरुणादित्यसंनिभम् | reply

 [८].हरिभिः–श्यामवर्णैः ।। ७ ॥

पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् ॥ ८ ॥
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ।
+ चामरव्यजने चाग्ग्रथे रुक्मदण्डे महाधने ॥ ९ ॥
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।

 महाधने - महामूल्ये ॥ ८ ॥



  1. रथ प्रवरमा रूढमाकाशे-ङ. ज
  2. अभूमिस्पर्शस्य देवस्वभावत्वात् - गो
  3. संप्रभा-ङ. ज.
  4. महर्षिभिः- ङ
  5. हरिभिः - इयामैः । यद्वा वाजिभि:-वेगवद्भिः हरिभि:-अश्वैः-गो
  6. हरितैः -ङ. ज.
  7. ददर्श दूरतः- ङ
  8. "इरितैः-ट