पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५ सर्ग: ]
31
तत्रागते तु देवेन्द्रं दृष्ट्वा रामो विसिष्मिये



गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ।। १० ।।
अन्तरिक्षगतं देवं वाग्भिरग्रयाभिरीडिरे ।
सह संभाषमाणे तु शरभङ्गेण वासवे ।। ११ ।।
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।

 वासवे - उक्तलक्षणे शरभङ्गेण संभाषमाणे तु तं शतक्रतुं इति रामो दृष्ट्वा - ज्ञात्वा अब्रवीत् ॥ ११ ॥

[१]रामोऽथ रथमुद्दिश्य[२] ज लक्ष्मणाय प्रदर्शयन् || १२ ||

 तदेव प्रपञ्चयति - रामोऽथेत्यादि । उद्दिश्य-हस्तेन अपरोक्ष निर्दिश्येत्यर्थः : ।। १२ ।।

अर्चिष्मन्तं श्रिया जुष्टं अद्भुतं पश्य, लक्ष्मण !
प्रतपन्तमिवादित्यं अन्तरिक्षगतं रथम् || १३ ||

ये हया: [३]पुरुहूतस्य पुरा शक्रस्य नः श्रुताः
अन्तरिक्षगताः दिव्याः त इमे हरयो ध्रुवम् ॥ १४ ॥

 पुरु-बहु-अनेकयजमानैः यागायाहूतः इति पुरुहूतः ॥ १४ ॥

इमे च पुरुषव्याघ्राः ये तिष्ठन्त्यमितो [४].रथम् ।
शतं शतं कुण्डलिनः युवानः खड्गपाणयः ।। १५ ।।

 शतं शतमिति । अष्टदिक्ष्वपीति शेषः । शतशब्दोऽनेकवाची । कुण्डलिनः- कर्णाभरणवन्तः ॥ १५ ॥



  1. इदमर्धं नास्ति-झ. एतदारभ्य अर्धत्रयं नास्ति-झ.
  2. भ्रातुदेशयताs-कृतम्-ङ.
  3. पुरुहूतस्य-बहुयागकर्तुः-रा.
  4. दिशम् ङ. ज