पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
34
[अरण्यकाण्ड:
शरभङ्गदर्शनम्



 अथ वज्रोति ! वज्री तं आमन्त्र्य — वज्री देवान् इत्युक्ता तं- शरम आमन्त्र्य दिवं ययौ 1 एवं स्थिते -- "निष्ठां नयतु तावतु ततो मां द्रष्टुमर्हति" इत्येवं पठित्वा अनन्तरं---" जीवन्तं च कृतार्थं च द्रष्टाऽहमचिरादिमम् । कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् इति च कंचन लेकं प्रक्षिप्य [१]. कश्चिद् व्याकरोति । सर्वमेतदसङ्गतम् । उपागच्छद्रामस्य तत्कालदर्शनमात्रस्यैव तदानीं चिकीर्षितत्वात् तावत एव कर्तव्यत्वाच्च । उपागच्छन् रामो यावन्मां नामिभाषते तावत् निष्ठां - रावणवधकर्मनिष्पत्ति नयतु, ततः – अनन्तरं मां द्रष्टुमईतीति च व्याकरोति । इदं व्याख्यानस्य प्रत्यक्षमिथ्यात्वं सुस्पष्टम् ॥ २३ ।।

प्रयाते तु सहस्राक्षे राघवः [२].सपरिच्छदः ।
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥ २४ ॥

 सपरिच्छदः- सपरिकरः - स्त्रीभ्रातृसहित इति यावत् ।। २४ ।।

तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।
निषेदुः समनुज्ञाताः लब्धवासा [३] निमंत्रिताः ।। २५ ॥

 समनुज्ञाता: - आसनावस्थानाय कृतानुमतिकाः, अत एव लब्धवासाः-लब्धस्थितयः, निमंत्रिताः-सत्कृताश्चाभवन्नित्यर्थः ||२५||



  1. महेश्वरतीर्थ: गोविन्दराजो वा । पाठस्योभवसम्मतत्वेऽपि उत्तरत्र प्रदर्शमान- व्याख्यायाः परिशीलने महेश्वरतीर्थमेव कटाक्षपतीति युक्तम् ॥ ' कृतार्थ-निस्तीर्णविपदं । जितवन्तं, रावणमिति शेषः । तदा वैभवयुक्तमिमं द्रक्ष्यामीति शेषः । कतकस्त्वेतत्पद्यं प्रक्षिप्तमित्याह -तद्वृथैव, मद्रोत्या व्याख्याने सर्वसामञ्जस्यात् '-ति. जितवन्तं कृतरावण- वधं, शीघ्रमहं द्रक्ष्यामीति शेष: । फोन रामसंभाषणे सति रावण: कोपं कर्तेति इन्द्रस्य मीतिर्व्यजिता-रा.
  2. सपरिच्छदम्-ङ सपरिच्छदे-झ
  3. निमन्त्रिता:- भोजनाबर्थ-ति