आगतं साक्षात् प्राप्तिं स्वीकृत्य अनुमन्यते स्म इत्यर्थः । एवं ब्रह्ममेघे
रामप्रतीक्षणात् भगवान् रामो ब्रह्मेति शिशोरपि स्पष्टम् । तथा अग्रेऽपि
प्रदर्शयिष्यामः । रघु (४२) मानः सर्गः ॥ ४२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे पञ्चमः सर्गः
षष्ठः सर्गः
[रक्षोवधप्रतिज्ञा]
शरभङ्गे दिवं याते [१] मुनिसङ्घाः समागताः ।
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ १ ॥
अथ शरभङ्गाश्रमे समागतरक्षः पीडानिवृत्तिप्रार्थकदण्डकारण्य - ब्रह्मर्षीणां रक्षोवधप्रतिश्रवणम् । शरभङ्ग इत्यादि । दिवं यात इति । इह च प्रयोगात् ब्रह्मलोके परदिवाख्ये सर्वतः इह काव्ये स्वर्गपर्यायाणां प्रयोगो द्रष्टव्यः । स्वर्गादिशब्दाः सुखवाचिनः । ब्रह्मलोकस्य निरतिशयानन्दत्वात् कैमुतिकसिद्धं स्वर्गादिवाच्यत्वम् । अभ्यगच्छन्तेति । स्वरक्षासमर्थमहावैभवस्य शरभङ्गस्य ब्रह्मलोक- प्रस्थितत्वात् रक्षाप्रार्थनार्थमिति शेषः ॥ १ ॥
- ↑ शरभङ्गदर्शनार्थ प्राप्ता मुनिसङ्क:- रा.
- ↑ सदा शरीरं संप्रक्षालयन्तीति संप्रक्षाला: । मरीचीन्-
चन्द्रसूर्यादि किरणान् सदा पिबन्तीति मरीविपाः, सदाऽन्तः
किरणान् प्रवेशयन्तः विवृत्तास्या इत्यर्थः । अश्मभिरात्म शरीराणि कुट्टन्तीत्यश्मकुट्टा:-गो.
अश्मकुट्टा:- अपक्ककुट्टितान्नभक्षका:-ति. यद्व। प्रत्यहं जीवनसाधनं संपाद्य सर्व तत्वै
विनियुज्य ये वर्तन्ते ते वा संप्रक्षाला:- अश्वस्तनिका इत्यर्थ:-ती. - ↑ तापसा:-ङ,