पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ सर्ग:].
45
ददौ तेभ्योऽभयं राम: ऋक्षणया धीरया गिरा



 अनुमन्दाकिनीमपीति । अनुर्लक्षणे कर्मप्रवचनीयः । अत्रत्यायाः तटवनवासिनामित्यर्थः ।। १७ ।।

[१]एवं वयं न मृष्यामः विप्रकारं तपस्विनाम् ।
क्रियमाणं वने घोरं रक्षोभिः [२]भीमकर्मभिः ॥ १८ ॥

 न मृष्याम इति । सोढुमशक्ता इत्यर्थः । विप्रकारं- पीडाम् ॥

ततस्त्वां शरणार्थं च शरण्यं [३]समुपस्थिताः ।
परिपालय नः, राम ! वध्यमानान् निशाचरैः ॥ १९ ॥

 शरणार्थ- रक्षणार्थम् ।। १९ ।।

परा त्वत्तो गतिः, वीर ! पृथिव्यां नोपपद्यते ।
परिपालय नः सर्वान् राक्षसेभ्यः, नृपात्मज ! ।। २० ।।

 गतिः-त्रातेति यावत् ॥ २० ॥

एतच्छ्रुत्वा तु काकुत्स्थ: तापसानां तपस्विनाम् ।
इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः | २१ ॥

 तापसानां तपस्विनामिति पाङ्कः पाठः । तपोबलयुकाना- मित्यर्थः ॥ २१ ॥

[४]नैवमर्हथ मां वक्तुं [५] आज्ञाप्योऽहं तपस्विनाम् ।
[६]केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ २२ ॥



  1. एवंविधं-ड.
  2. भीमविक्रमैः-ड.
  3. समुपागतान्-ङ.
  4. शरणागत्यैवाऽऽशप्तोऽहम्, परिपालयेत्यादिकं वक्तुं नाईथ। केवलेनात्मकार्येण-
    केवलात्मप्रयोजनत्वेन राक्षसैः क्रियमाणं भवतामिमं विप्रकारं अपाऋष्टुं - निवर्तयितुं मया वनं
    - प्रविष्टम् - गो
  5. आशप्तो-ङ,
  6. वेवलेन स्वकार्येण- ङ. ज.