पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७ सर्गः]
47
ततो रामः स तैर्विप्रैः सुतीक्ष्णस्याश्रमं ययौ



दत्त्वा [१]वरं चापि तपोधनानां
धर्मे घृतात्मा सह लक्ष्मणेन ।
तपोधनैश्चापि [२] [३] सहार्यवृत्तः
सुतीक्ष्णमेवाभिजगाम वरिः ।। २६ ।।

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे षष्ठः सर्गः




 दत्त्वा वरमिति | प्रागुक्तरूपवचनात्मनेति शेषः । धृतः- अवस्थितः आत्मा–चितं यस्य स तथा । आर्य-पूज्यं वृत्तं यस्य स तथा । चरु (२६) मानः सर्गः ।। २६ ।।  इति श्रीमद्रामायणामृतकतकटीकार्या अरण्यकाण्डे षष्ठः सर्गः




सप्तमः सर्गः

[सुतीक्ष्णसन्दर्शनम् ]


रामस्तु सहितो भ्रात्रा सीतया च परंतपः ।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैः द्विजैः ॥ १ ॥

 अथ सुतीक्ष्णोपसृत्यनन्तरं तदाश्रमे तद्रजनीवासः | रामस्त्वि- त्यादि । तैः द्विजैः सहेति । शरभङ्गस्याश्रमोपसङ्गतवानप्रस्थैस्सहेत्यर्थः ॥

[४]स गत्वाऽदूरमध्वानं नदीस्तीत्व बहूदकाः ।
[५] ददर्श [६]विमलं [७]शैलं [८] महामेघमिवोन्नतम् || २ ||



  1. ऽभयं- ङ. ज
  2. सभाज्यवृत्त:-पूज्याचार:- गो.
  3. सभाज्यवृत्तः - ङ.
  4. अदूरमिति पदच्छेद:; पूर्व शरभङ्गेण 'वह राम महातेजाः'
    इति सुतीक्ष्णाश्रमस्यादूरत्वोक्तेः- गो
  5. एतदनन्तरं - ततस्तदिवाकुवरौ संततं विविधैः द्रुमैः ।
    काननं तौ विविशतु: सीतया सह राघवौ ॥ प्रविष्टस्तु वनं
    पोरेबहुपुष्पफलद्रुमम् । ददर्शश्रममेकान्ते चीरमाला परिष्कृतम् ॥ इत्यधिकं सर्वत्र.
  6. विपुलं- ङ.
  7. राम:- ङ.
  8. महामेरु - ङ. ज.