पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

viii



 ददातीवोपरितनवाक्यैः । चतुर्दशवत्सरपरिमिते वनवासकाले मार्कि त्रयोदश संवत्सराः मुनीनामाश्रमेषु, पञ्चवट्यां च सुसुखं नीताः श्रीरामेण ॥

'अनाकृष्टस्य विषयैः विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीत् वृद्धत्वं जरसा विना'

[१]

 इत्युक्त सहज वार्धक्यशालिनां राघवाणां वार्धके मुनिवृत्तीनाम् [२] इत्यभिहिता मुनिवृत्तिः सुखावहैव स्यादिति युक्तमेव ॥

वनवासः खलु [३] चैत्रे मास्युपक्रान्तः । अतश्च-
'पूर्णे चर्तुर्दशे वर्षे पञ्चम्यां भरताग्रजः ।
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्

[४]

 इत्यत्रोक्ता पञ्चमी चैत्रपञ्चम्येव । पम्पासरोवरप्राप्तिश्च वसन्त- र्तावेवेति [५] स्पष्टमवगम्यते । भरद्वाजाश्रमप्रत्यागमन पर्यन्त कथाभागः तथा न सुग्रीवसख्यादारभ्य एकसंवत्सरवृत्त इति स्पष्टम् । एवञ्चास्मिन्नरण्यकाण्डे रामवनवासस्य आरम्भकालिक- कतिपयमासवर्ज त्रयोदशवत्सरवृत्तकथाभागः क्रोडीकृत इत्ययमंशः अवधेयः । अरण्यकाण्डनामप्राप्तौ अयमपि कश्चित् हेतुर्भवितुमर्हति ॥

 नवरसभरितेऽस्मिन् हि महाकाव्ये आदिकविः नवस्वपि रसेषु अलौरेव वाक्यैः परां काष्ठां प्रापयत्यस्मानित्यय मध्यं शोऽवधेयोऽत्र ॥



  1. रघुवंश.1-23.
  2. रघुवंश. 1-8.
  3. चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः । योवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ अयो, 3-3
  4. युद्ध. 127-1.
  5. ||सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः । गन्धवान् सु/ भिर्मासः जातः पुष्पफलद्रुमः ॥ किष्कि. 1-10