पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९ सर्गः ]]
63
किन्तु वैरं विना इन्तु राक्षसान् किं नु साम्प्रतम् !



पुरा किल, महाबाहो ! तपस्वी [१]सत्यवाक् शुचिः |
कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ॥ १६ ॥

 रतमृगद्विज-उपशान्तमृगपक्षिके । तपस्तेपे इति शेषः ।। १६ ।।}}

तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः ।
खड्गपाणिरथागच्छत् आश्रमं भटरूपधृत् ॥ १७ ॥

 भटः- योषः ॥ १७}} ॥

तस्मिंस्तदाश्रमपदे [२]निशितः खड्ग उत्तमः ।
[३] सन्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ।। १८ ।। ।

 सन्यासविधिना-कालान्तरे आदानाय रक्षणार्थस्थापनकर्मणा ॥ ||}}

स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः
वनं तं [४] विचरत्येव रक्षन् [५] प्रत्ययमात्मनः ।। १९ ॥

 आत्मनः प्रत्ययं विश्वस्य स्थापितं वस्तु प्रत्ययाघनशपथज्ञान- विश्वासहेतुषु रक्षन्नेव विचरति ॥ १९॥

यत्र गच्छत्युपादातुं मूलानि च फलानि च ।
नविना याति तं खड्गं न्यासरक्षणतत्परः ॥ २० ॥

 तदेव प्रदशयति —- यत्रेत्यादि ॥ २० ॥}}

नित्यं शस्त्रं [६]परिवहन् क्रमेण स तपोधनः । चकार रौद्रीं स्वां बुद्धि त्यक्ता तपसि निश्चयम् ॥ २१ ||</poem>}}



  1. सत्यवान्-ज
  2. निहितः-इ.
  3. राजचोरादिक भयात् दायादानां च वञ्चनात् । स्थाप्यतेऽन्यगृहे द्रव्यं न्यास:
    सपरिकीर्तितः ॥
  4. विहर-ङ.
  5. आत्मन: प्रत्ययं रक्षन्– येन विश्वासेन न्यासो दत्त: तादृश-
    रक्षणभारज्ञानाधीनमेतत्
  6. परिवहन्―परितो वहन्, स्वेन साकं सर्वत्र वद्दन् ।