पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
82
[अयोध्याकाण्डः
तैलद्रोण्यधिशयनम्


न तु [१]सङ्कालनं राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ॥ १५ ॥

 न तु पुत्रेण विना सङ्कालनं-प्रेतनिर्हारं चक्रुः । सर्वज्ञाः- कालदेशोचितसर्वकार्यज्ञाः ते पुत्रेणैव संकालन कर्तुमीषुः । तत एव हेतोः तैलद्रोण्यां भूमिपं रक्षन्ति स्म ॥ १५ ॥

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् ।
[२] हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः [३]पर्यदेवयन् ॥ १६ ॥

 शायितं ज्ञात्वा अनन्तरं च हा मृतोऽयं राजेति पर्यदेवयन्निति योजना ॥ १६ ॥

बाहूनुद्यम्य कृपणाः नेत्रप्रस्रवणैर्मुखैः ।
रुदन्त्यः शोकसन्तप्ताः [४] कृपणं पर्यदेवयन् ॥ १७ ॥

 नेत्राणां प्रस्रवणं- अश्रुप्रवाहः येषु मुखेषु तानि तथा ॥ १७ ॥

हा महाराज ! रामेण सततं प्रियवादिना ।
[५]विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ॥ १८ ॥
[६]कैकेय्या दुष्ट[७]भावायाः राघवेण वियोजिताः ।
कथं [८]पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ १९ ॥

 पतिघ्न्येति । 'लक्षणे जायापत्योष्टक् ' इति टक् ॥ १९ ॥

स हि नाथः [९] सदाऽस्माकं तव च प्रभुरात्मवान् ।
वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ २० ॥


  1. संकलन-ड.
  2. तैलनिवेशनकाले राजदर्शनाभावात्….. भूयोपि पर्यदेवयन्- गो. तावत्पर्यन्तं
    अपि पुनर्जीवेदयमिति प्रत्याशा लोकवदासीदिति भावो वा ॥
  3. पर्यवारयन्- ङ.
  4. करुणं-ङ.
  5. विहीनः- ङ.
  6. कैकेय्या: हेतोरित्यर्थः । अस्य 'कैकेय्याः समीपे' इत्युत्तरार्धेनान्वयः ।
  7. भावेन-ङ.
  8. सपत्न्या-ङ.
  9. स चास्मा- ङ.