पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८ सर्गः ]
97
ते प्रापुः केकयपुरं यत्रासीत् भरतस्तदा


 [१] अञ्जलिपानान्-अब्भक्षान्-इक्षुमतीतीरवर्तिन इति शेषः । मध्येनेत्यादि । प्राग्वत् ॥ १८ ॥

विष्णोः पदं प्रेक्षमाणा [२]विपाशां चापि शाल्मलीम् ।
नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ॥ १९ ॥

 सुदामपर्वतवर्तिनं विष्णोः पदं - पादमुद्राम् । विपाशां - नदीम् । शाल्मली - शुनकशाल्मली सिद्धिप्रदा ॥ १९ ॥

पश्यन्तो विविधांश्चापि सिह्मव्याघ्रमृगद्विपान् ।
ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः ॥ २० ॥
ते श्रान्तवाहना दूताः विकृष्टेन पथा ततः ।
गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा ॥ २१ ॥

 विकृष्टेन–विप्रकृष्टेन अतिदूरेण सता पथा, हेतुना श्रान्तवाहनाः । गिरिव्रजं- केकयपुरं राजगृहपर्यायम् ॥ २१ ॥

भर्तुः प्रियार्थं कुलरक्षणार्थं
भर्तुश्च वंशस्य परिग्रहार्थम् ।
अहेडमानास्त्वरया स्म दूताः
रात्र्यां तु ते तत्पुरमेव याताः ॥ २२ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टषष्टितमः सर्गः


 [३]भर्तुरिति । नियोक्तुर्वसिष्ठस्य शीघ्रगमनेन प्रीतिसंपादनार्थं; कुलस्य–मन्त्रिपुरोहितपौरप्रमुखराजोपजीविजनस्य रक्षणार्थं; भर्तुः-


  1. अञ्जलिपानान्–अञ्जलिप्रमाणजलमात्राहारान्-गो. इदं जलप्रमाणमात्रकथनं, अञ्जलिना पानस्य निषिद्धत्वात्
  2. विशालां-ङ,
  3. भर्तुः दशरथस्य प्रियार्थं शीघ्रानीतभरतकृतौर्ध्वदैहिकादिना दशरथस्य परलोकप्राप्तिहेतुत्वात्- गो.