तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।
आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥ ३ ॥
आयासं-दुस्स्वप्नदर्शनदुःखम् । विनेष्यन्तः-अपनेष्यन्त इति यावत् ॥ ३ ॥
आयासापनयनाय वीणादिकं वादयन्ति स्म । तथा तस्य शान्तिं-तूष्णीमवस्थानं लोलयन्ति स्म-चालयन्ति स्म, श्लोकाद्यर्थप्रश्नव्याख्यानादिव्याजेन । अपरे हास्यानि-हास्यरसप्रधानानि विविघानि नाटकान्याहुः स्म ॥ ४ ॥
स तैर्महात्मा भरतः सखिभिः प्रिय[४]वादिभिः ।
गोष्ठीहास्यानि कुर्वद्भिः न प्राहृष्यत राघवः ॥ ५ ॥
गोष्ठ्युचितानि हास्यानि–नर्माणि – गोष्ठीहास्यानि ॥ ५ ॥
तमब्रवीत् [५]प्रियसखः भरतं सखिभिर्वृतम्
सुहृद्भिः पर्युपासीनः किं, सखे ! नानुमोदसे ॥ ६ ॥
प्रियसखः— अतिशयेन प्रियश्चासौ सखा च प्रियसखः- 'राजाहस्सखिभ्यः....' इति ट्च्, सखिमात्रस्य प्रियत्वाविवादात् भूयोगतिर्विज्ञायते ॥ ६ ॥
एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।
शृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ॥ ७ ॥