पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
100
[अयोध्याकाण्ड:
भरतदुस्स्वप्नदर्शनम्


[] स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् ।
पतन्तमद्रिशिखरात् कलुषे गोमयहदे || ८ ||
प्लवमानश्च मे दृष्टः स तस्मिन् गोमयहदे ।
पिबन्नञ्जलिना तैलं []हसन्नपि मुहुर्मुहुः ॥ ९ ॥

प्लवमानः- मेकादिवत् ॥ ९ ॥

ततस्तिलौदनं भुक्त्वा पुनः पुनरघश्शिराः ।
तैलेनाभ्यक्तसर्वाङ्गः तैलमेवावगाहत ॥ १० ॥

तिलमिश्रं ओदनं – तिलोदनम् । पिबन्नञ्जलिनेत्यादि तैलमेवावगाहत इत्यन्तं एकः स्वप्नः ॥ १० ॥

स्वप्रेऽपि [] सागरं शुष्कं चन्द्रं च पतितं भुवि ।
[] उपरुद्धां च जगतीं तमसेव समावृताम् ॥ ११ ॥

स्वप्नदर्शनान्तरमथाग्रेऽपि । उपरुद्धां, असुररक्षोभिरिति शेषः ॥

औपवाह्यस्य नागस्य विषाणं शकलीकृतम् ।
सहसाऽपि च संशान्तं ज्वलितं जातवेदसम् ॥ १२ ॥

औपवाह्यः -- राजवाहनार्हो दन्ती ॥ १२ ॥

[] अवतीर्णां च पृथिवीं शुष्कांश्च विविधान् द्रुमान् ।
अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान् ॥ १३ ॥


  1. स्वप्ने पितरं इत्यारभ्य गोमयह्रदे इत्यन्तमेकः स्वप्नः । पिबन्नित्यारभ्य अवगाहत इत्यन्तमपर: स्वप्नः इति युक्तम् । गोमयह्रदे इत्युक्त्वा तैलमेवावगाहत इत्यस्वारस्यप्रसंगात्। स्वप्नस्यापर्यनुयोज्यत्वेन समाधौ तु न किञ्चिदपि वक्तुं शक्यमिति ।
  2. इसन्निव-ङ.
  3. द्वितीयान्तानां सर्वेषां 'अहं पश्यामि' इत्यनेनान्वयः ।
  4. तमसाऽऽवृतामिव उपरुद्धां-तिरोहिताम्-गो.
  5. अवतीर्णां-अध: पतिताम्- गो.