पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
108
[अयोध्याकाण्डः
भरतप्रस्थानम्

[१]अन्तःपुरेऽतिसवृद्धान् व्याघ्रवीर्य [२] बलोपमान् ।
दंष्ट्रायुधान् महाकायान् शुनश्चोपायनं ददौ ॥ २३ ॥

 अतिसंवृद्धाः-अत्यन्तं विवर्धिताः; यद्वीर्यबलविषये व्याघवीर्यबले एवोपमा येषां ते तथा ॥ २३ ॥

[३] रथान् मण्डलचक्रांश्च योजयित्वा परश्शतम् ।
उष्ट्रगोऽश्वखरैर्भृत्याः भरतं यान्तमन्वयुः ॥ २४ ॥

 मण्डलाकारतया रथप्रवर्तनसाधनं चक्रं मण्डलचक्रं, चतुर्दिक्चक्रमध्यस्थं - यथाऽस्माभिः काञ्च्यादावनुभूयते-तद्युक्तस्तथा; मत्वर्थीयाजन्तः । उष्ट्रादिभिर्युक्ता भृत्या इति। मातुलप्रेरिता इति शेषः ॥ २४ ॥

स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत ।
भरतः केकयीपुत्रो गमनत्वरया तदा ॥ २५ ॥

 दत्तं धनं नाभ्यनन्दतेति किमल्पमत्या नेत्याह-गमनत्वरयेति । दत्तोपलालनावकाशाभावादेवेत्यर्थः ॥ २५ ॥

बभूव ह्यस्य हृदये चिन्ता सुमहती तदा ।
त्वरया चापि दूतानां स्वमस्यापि च दर्शनात् ॥ २६ ॥
स स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम् ।
[४]प्रपेदे सुमहच्छ्रीमान् आविवेशानिवारितः ॥ २७ ॥


  1. अयं श्लोकः तिलकरीत्या 'तस्मै हस्त्युत्तमान्' इत्येतदनन्तरं योज्यः ।
  2. बलान्वितान् - ङ.
  3. अयं श्लोकः 'स मातामहमापृच्छ्य' इत्युत्तरश्लोकानन्तरमेव सर्वत्र दृश्यते ।
  4. तथा च राज्ञा मातुलेन च स्वगृह एव सत्कृत: मातामह्यादिदर्शनार्थं अन्तः पुरं
    गतवानिति बोध्यम् । अथ वा भरतस्य दुःखप्रदर्शनदूतागमनवृत्तान्तश्रवणेन केकयमातुलौ
    स्वगृहमेवागताविति द्रष्टव्यम् । सुमहच्छ्रीमान्- सुमहाश्रीमान्-गो.