पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
146
[अयोध्याकाण्ड:
कैकेयीविगर्हणम्


भावलक्षणया सन्तानपरंपराद्वारेण यस्याः पुत्रसहस्राणि - अपरिमितपुत्राः सन्ति साऽपि शोचति, औरसपुत्रपीडायां, कथं पुनर्मानुषी कौसल्या एकपुत्रा विना रामं शोकेन वर्तयिष्यति ॥ २८ ॥

एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता ।
तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥ २९ ॥

 सेयं विवत्सेव त्वया कृता । यदेवं–तस्मादित्यादि ॥ २९ ॥

[१] अहं त्वपचितिं भ्रातुः पितुश्च सकलामिमाम् ।
[२] वर्धनं यशसश्चापि करिष्यामि न संशयः ॥ ३० ॥

 अपचितिः- पूजा । इमामिति । प्रस्तुतौर्ध्वदैहिकक्रियामित्यर्थः ॥

[३] आनाय्य च महाबाहुं कोसलेन्द्रं महाबलम् ।
स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ ३१ ॥

 आनाय्य – आनाययित्वा यशसश्च वर्धनं करिष्यामीत्यन्वयः । प्रवेक्ष्यामीति । आनयनार्थमिति शेषः ॥ ३१ ॥

न ह्यहं, पापसङ्कल्पे ! पापे ! पापं त्वया कृतम् ।
शक्तो धारयितुं [४] पौरैः अश्रुकण्ठैर्निरीक्षितः ॥ ३२ ॥

 पापं - रामविवासनरूपम् ॥ ३२ ॥

सा त्वमग्निं प्रविश वा स्वयं वा विश दण्डकान् ।
रज्जुं [५] बध्वाऽथ वा कण्ठे न हि तेऽन्यत् परायणम् ॥ ३३ ॥

 कण्ठ इति । म्रियस्वेति शेषः ॥ ३३ ॥


  1. भ्रातुः अपचितिं-राज्याभिषेकरूपां, पितुश्च सकलामिमां-उत्तरक्रियां-स्पष्टं
    वक्तुमनिच्छया वा एवं कथनम् ।
  2. वर्धिनीं- ङ.
  3. आनाययित्वा तनयं कौसल्याया महाद्युतिम्- ङ.
  4. अश्रुकण्ठेषु पौरेषु निरीक्षत्सु - इति यावत् ।
  5. बधान वा-ङ.