पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
160
[अयोध्याकाण्ड:
भरतशपथः


ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः ।
बालवत्सां च गां दोग्धु यस्यार्योऽनुमते गतः ॥ ५६ ॥

 विहन्तु - विघ्नयतु । बालवत्सा _ [१] अनिर्दशा ॥ ५६ ॥

तृष्णार्थं सति पानीये विप्रलंभेन योजयन् ।
लभेत तस्य यत् पापं यस्यार्योऽनुमते गतः ॥ ५७ ॥

 विप्रलम्भेन–वञ्चनया योजयन्- अप्रयच्छन्निति यावत् ॥ ५७ ॥

 [२]भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥ ५८ ॥

 भक्त्या — शिवविष्ण्वादिदेवताभक्त्या तं तं स्वमार्गं-तदुपोद्बलकशैवादिशास्त्रं आश्रित्य विवदमानेषु सत्सु, 'त्वमपि त्वन्मार्गे प्रबलः, अन्योऽप्यन्यस्मिन् मार्गे । सर्वस्य च मार्गस्य तत्तदधिकार्यनुग्रहार्थमीश्वरप्रणीतत्वाविशेषात्, दृष्टादृष्टफलसंवादाविशेषात् । अतो न वृथा कलहः कर्तव्यः' इति कलहशमनं कृत्वा, सत्यपि सामर्थ्ये केवलं पश्यतः कलहप्रियस्य यत् पापं, तेन पापेन युज्येत मे आत्मेत्यर्थः ॥५८॥

विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः ।
एवमाश्वासयन्नेव दुःखार्तो निपपात ह ॥ ५९ ॥


  1. प्रसूत्यनन्तरं अनतिक्रान्तदशदिनेति यावत् ।
  2. विवदमानेषु--वादिप्रतिवादिषु विवादं कुर्वत्सु सत्सु भक्त्या—एकस्मिन् स्नेहेन मार्गं - जयोपायमाश्रित्य पश्यतः –
    तूष्णीं भवतः—जयोपायं ज्ञात्वाऽपि पक्षपातेन तूष्णीं भवत इत्यर्थः, तस्य पापेन युज्येतेति सम्बन्ध:-ती. वादप्रतिवादिषु विवादं कुर्वत्सु भक्त्या–एकस्मिन् स्नेहेन जयोपायमाश्रित्य पश्यतः -ब्रुवतः - गो. वस्तुतस्तु – कतकोक्तं युक्तम् । अथ वा--परमात्मनि भक्त्या, न तु विजिगीषया, विवदमानेषु परमात्मप्राप्तिसाधनज्ञानाभावात् ’अयं वा मार्गः, अयं वा' इति विवादं कुर्वत्सु मुमुक्षुजनेषु, तन्मार्गं आश्रित्यापि तूष्णीं
    पश्यतः— समीचीनमार्गमनुपदिशतः, इत्यर्थः 'आश्रित्य ' इत्यनेन स्वानुभवसिद्धत्वं मागस्योक्तम् ।