पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
174
[अयोध्याकाण्ड:
कुब्जापरिभव:

गतिर्यः सर्वभूतानां[१]. दुःखे, किं पुनरात्मनः ।
स रामः सत्वसंपन्नः स्त्रिया प्रव्राजितो वनम् ॥ २ ॥

 गतिः -दुःखापनोदनकता। किं पुनरात्मन इति । आवयोरित्यर्थः । स राम इति । सर्वप्राणिदुःखापहर्ता ॥ २ ॥

[२] बलवान् वीर्यसंपन्नः लक्ष्मणो [३] नाम योऽप्यसौ ।
किं न मोचयते रामं [४]कृत्वा स्म पितृनिग्रहम् ॥ ३ ॥

 लक्ष्मणो नाम योऽप्यस्माकं भ्राताऽस्ति, रामं स वा पितृनिग्रहं- पितृशिक्षणं कृत्वाऽपि किं न मोचयते स्म वनवासात् ॥ ३ ॥

पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ ।
उत्पथं यः समारूढः राजा नार्या वशं गतः ॥ ४ ॥

 कथं पितृनिग्रहः शक्य इत्यत्राह - पूर्वमित्यादि । यो नो राजा नार्या वशं गतस्सन् उत्पथं समारूढो यतः, अतो लक्ष्मणेन स्वयं नयानयौ — अभिषेकविषयकनयानयौ समीक्ष्य- विचार्य, 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्' इति शास्त्रं चानुसन्धाय रामप्रव्राजनात् पूर्वं तत्प्रसङ्गकाल एव निग्राह्यः – 'नेदमुचितम्, तूष्णीमास्स्व' इति बलादेव च निवर्तनीय इत्यर्थः ॥ ४ ॥


  1. सर्वभूतानां प्राणिसात्रस्य दु:खे सति यो गतिः, स आत्मनो दुःखे
    गतिरिति किं पुनः- किं वक्तव्यम् । एवं दुःखनिस्तारक्षमो रामः सत्त्वसंपन्नोऽपि ----
    बलसंपन्नोऽपि स्त्रिया—अत्यन्ताबलया वनं प्रवाजित: ; इदमत्यन्तचित्रमिति भाव: - गो
  2. सत्वसंपन्नो रामोऽपि तूष्णीं अभूच्चेत् वीर्यसंपन्नो लक्ष्मणोऽपि कुतस्तूष्णीमभूदिति भावः ।
  3. नामेति कुत्सने, 'नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ' इति वैजयन्ती-गो.
  4. कृत्वाऽपि-ङ.