एतत् पृष्ठम् परिष्कृतम् अस्ति
184
[अयोध्याकाण्ड:
मार्गसंस्कार:
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनाशीतितमः सर्गः
इदं वचनं - रामानयनवचनम् । विशेषेण यातः - अपगतः शोकः येषां ते तथा--वियातशोकाः, राजकर्तार इति शेषः । हे नरवर ! तव वचनादेव रामे त्वयि च भक्तिमान् शिल्पिवर्ग: दुर्गे पथि रक्षी जनश्च पन्थानं करोत्वित्यूचुः । सेक (१७) मानः सर्गः ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनाशीतितमः सर्ग:
अशीतितमः सर्गः
[मार्गसंस्कारः]
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः ।
स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥ १ ॥
अथ भरतनियुक्तशिल्प्यादिभि: मार्गशोधनम् । अथेत्यादि । भूमिप्रदेशं निम्नोन्नतादिप्रदेशं जानन्तीति भूमिप्रदेशज्ञाः [३]। सूत्रकर्मणि – निर्जलस्थलेष्वगाघवापीकूपादिजलोद्धारसूत्रकर्माणि - यन्त्र-
- ↑ सपरिषदोऽपि - ङ.
- ↑ भक्तिमान् जन:, शिल्पिवर्गश्च व्यादिष्टा:- प्रचोदिताः, तत्तत्कृत्येष्वित्यर्थः ।
रामानयनोत्साहवशात् 'क्रियतां शिल्पिभिः पन्थाः' इति भरतकथनमात्रेण अमात्या:
दक्षा: तत्क्षण एव पार्श्वस्थसन्देशवाहकादिद्वारा मार्गसमीकरणार्थं आज्ञां प्रेषयित्वा
’व्यादिष्टाः’ इत्यवदन् । कार्यनिष्पत्तिदार्ढ्याय च ' भक्तिमान्' इति पदम् । - ↑ यद्वा - नानादेशविदः - गो.