पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अयोध्याकाण्डः ततः सन्दर्शन इति । आश्रमप्रवेशनानन्तरं ऋषिसन्दर्शनावसर इत्यर्थः । अनुपुरोहितं-पश्चादर्थेऽनोरव्ययीभावः, पुरोहितस्य पश्चा- दित्यर्थः || ३ || 242 भरद्वाजसमागमः वसिष्ठमथ दृष्दैव भरद्वाजो महातपाः । संचचालासनात्तूर्णं शिष्यानर्ध्यमिति *ब्रुवन् ।। ४ ।। शिष्यानर्ध्यमिति ब्रुवन्निति । शिष्यान् प्रति 'अर्ध्यमानयत' इति ब्रुवन्नित्यर्थः ॥ ४ ॥ + समागम्य वसिष्ठेन भरतेनाभिवादितः । अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥ ५ ॥ अबुध्यतेति । वसिष्ठेन सहागमनाद्धेतोरिति शेषः ॥ ५ ॥ ताभ्यामध्ये च पाद्यं च दत्वा पश्चात् फलानि च । आनुपूर्व्याच धर्मज्ञः पप्रच्छ कुशलं कुले || ६ || अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । 1 ताभ्यां - भरतशत्रुघ्नाभ्याम् वसिष्ठस्यार्थ्यादिदानानन्तरमिति शेषः । तदेव दर्शितं - आनुपूर्व्याच्चेति । आनुपूर्व्याद्दत्त्वा आनुपूर्व्यात् पप्रच्छेत्यग्रेण सम्बन्धः । कुले-गृहे ॥ ६ ॥ , जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ ७ ॥ दशरथं वृत्तमिति । अतीतमिति यावत् । अत एव न राजानमुदाहरदिति । राजानं प्रति कुशलप्रश्नमिति शेषः ।। ७ ।। + समागम्येति ।

  • त्वरातिशयात् एवं अपूर्णोक्ति: लोकेऽपि प्रसिद्धा ।

सवयस्कत्वान्नमस्कारामाव:- गो. वसिष्टेन समागम्य वसिष्ठेन सहागत्य भरतेन अभिवादित इति वाऽन्वयः । 1 TOMVAYERAYAWAS