पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

244 भरद्वाजसमागमः [अयोध्याकाण्ड: नियुक्त: 'स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः । वनवासी भवेतीह समाः किल चतुर्दश ।। १२ ।। कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ? अकण्टकं भोक्तुमनाः राज्यं तस्यानुजस्य च ॥ १३ ॥ 'वनवासी भव' इति नियुक्तः इति योजना | इहेति । यद्वनं प्रत्राजितः इह वन इत्यर्थः । तस्य अनुजस्य – लक्ष्मणस्य च पापं कर्तुमिहेच्छसीत्यन्वयः । तत्र हेतु:--अकण्टकमिति । अस- पत्नमिति यावत् ।। १२-१३ ।। एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह । पर्यश्रुनयनो दुःखात् वाचा संसञ्जमानया ॥ १४ ॥ संसज्जमानया— स्खलन्त्या ॥ १४ ॥ हतोऽस्मि यदि मामेवं ' भगवानभि मन्यते

4

  • मत्तो न दोषमाशङ्के 'नैवं सामनु'शाधि हि ।। १५ ।।

- यदि - यस्मात् भगवान् मामभि -- मां प्रति एवं मन्यते-- पापप्रसक्तं मन्यते अतो हतोऽस्मि - व्यर्थ जन्मास्मीत्यर्थः । कथमेव- मित्यतः- -- -मत्त इत्यादि । दोषं - वनप्रव्राजनदोषं मत्तः -मन्निमि- १

  • रामप्रव्राजनहेतुभूतं दोषं, मत्तः- मन्मूलं इति, नाशङ्के – 'रामप्रव्राजनस्य त्वं

न हेतुरिति भावयामि ' इति मां प्रति मुनिः न वदति किल, सोऽपि मन्निमित्तमेव रामप्रव्राजनं मनुते किल । अत: हतोऽस्मि-इत्यर्थः । 'मत्तो न दोषमाशङ्के ' इत्यत्र ' त्वत्तः इति वक्तव्यत्वेऽपि, पूर्णानुवादरूपत्वाभावात, शेोकवैय्याकुल्या वा एत्रमुक्तिः । परन्तु - ' सर्वशो भरद्वाज: मां निर्दोषं जानीयादेव' इति प्रत्ययवन्तं भरतं प्रति भरद्वाजेन तथा प्रश्नात् –'भगवान् वा मां निर्दोषं जानीयात्' इति खलु अभावयम् । सोऽपि यद्येव वक्ति, ततो मरणमेव मे वरमिति भरताशयः प्रतिभाति । 3 भगवानपि-च. मैव च. 'स्त्रीनिमित्तेन-च. 2 तस्याग्रजस्य च-ड.. 5 शास्ति-ङ.