पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरद्वाजोक्तमार्गेण ससैन्यो भरतो ययौ गजकन्या गजाश्चैव * हेमकक्ष्याः पताकिनः । जीमूता इव | घर्मान्ते सघोषाः संप्रतस्थिरे ॥ ३३ ॥ + सघोषा इति । घण्टाघोषसहिता ९२ सर्ग: ] गजकन्याः - करेणवः । इत्यर्थः ॥ ३३ ॥ विविधान्यपि + यानानि महान्ति च लघूनि च । प्रययुः सुमहार्हाणि ई पादैरेव पदातयः ॥ ३४ ॥ सुमहाणि यानान्यरुह्य तद्योग्याः प्रययुः । पादैरेव प्रययुः ॥ ३४ ॥ अथ यानप्रवेर्कैस्तु कोसल्याप्रमुखाः स्त्रियः । रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा ।। ३५ ।। 'प्रवेकानुत्तमोत्तमाः' ॥ ३५ ॥ || चन्द्रार्कतरुणाभासां ' नियुक्तां शिबिकां शुभाम् । आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥ ३६॥ नियुक्तां, वाहकैरिति शेषः ।। ३६ ।। पदातयस्तु प

  • हेमकक्ष्या:

हेममयबन्धनरज्जव: । सघोषाः घण्टाघोषयुक्ताः-गो. + पर्मान्ते-- वर्षतौँ । ↑यद्वा यानानीति तत्स्था लक्ष्यन्ते-गो. §यानैः समं रिति भावः - गो. || चन्द्रार्कतरुणाभासां-- तरुणचन्द्रार्केकान्तिम् । सिठ्ठादिमिराज्ञप्ता - गो. स चार्कङ. 275 नियुक्तां- चन्द्रार्कवरुणाभासां–तरुणचन्द्राकसदृशी, कचिद्भागे एफटिकादिनिर्मितां, कचिद्भागे पद्मरागादिनिमितामिति यावत्-ति. निर्युक्तां- कृतां-ती. 2 निर्युक्तां-ड.. 18*