पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ सर्ग:] विचिन्वन्तो बने रामं धूमाझं ते व्यलोकयन् 2 एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् ।

  • एतमाविशतः शीघ्रं अधिवासं ' पतत्रिणः ॥ १७ ॥

+ अतिमात्रमयं देशः मनोज्ञः प्रतिभाति 'मा । तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ १८ ॥ व्यक्तं – स्पष्टम् । स्वर्गपथ:- स्वर्गप्रदेश इत्यर्थः ॥ १८ ॥ 1 - + मृगा मृगीभिः सहिताः बहवः पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ।। १९ ।। पृषतानां सबिन्दुत्वात् कुसुमैः चित्रिता इवेति ॥ १९ ॥ Sसाधु ! सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २० ॥ साधु – सम्यक् — यथोचितम्, 'साधुस्त्रिषूचिते सौम्ये ' इति वैजयन्ती | प्रतिष्ठन्तां - प्रस्थापनं कुर्वन्ताम् । किमर्थमि- - विचिन्वन्त्वित्यादि । चिञ् द्विकर्मकः ॥ २० ॥ 3 त्यतः भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः । 'विविशुस्तद्वनं शूराः 'धूमाग्रं ददृशुस्ततः ॥ २१ ।। ते समालोक्य || धूमाग्रं ऊचुर्भरतमागताः । नामनुष्ये भवत्यग्निः व्यक्तमत्रैव राघवौ ॥ २२ ॥ 281

  • एतं अधिवासं वासस्थानं शीघ्रं आविशत: । + अतिमात्रं मनोज्ञः ।

+ पृषता मृगाः इत्यन्वयः | § 'साधु' इति प्रत्येकं पदं तृप्तिसूचकम् । सैन्या: प्रतिष्ठन्तां--- अत्रैव प्रतिष्ठिता भवन्तु इति वा । || धूमाग्रमित्यनेन दावानलघूमो व्यावर्त्यते । तेन च 6 नामनुष्ये भवत्यभि: ' इति समर्थनं युक्तमेव । पवमापतत: शैलं-च. पतत्रिणाम्-च. " व्यचिन्वंस्तद्वनं- ङ.. S धूमं च ङ. 2