पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

284 LINE mi चित्रकूटसौन्दर्यम् चतुर्नवतितमः सर्गः [ चित्रकूटसौन्दर्यम् ] दीर्घकालोषितस्तस्मिन् गिरौ गिरि 'वनप्रियः ।

वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् ।। १ ।।

  • अथ दाशरथिचित्रं चित्रकूट मदर्शयत् ।

+भार्याममरसङ्काशः शचीमिव पुरन्दरः || २ || [अयोध्याकाण्ड: अथ कविः रामस्य चित्रकूटप्राप्तिमुपवर्ण्य पुनर्भरतानयनादि- चित्रकूटप्राप्तिपर्यन्तवृत्तान्तमुपवर्ण्य अथ परमप्रकृतं रामवृत्तान्तमुप- वर्णयति -- दीर्घेत्यादि । दैर्ध्यस्य सापेक्षत्वात् द्विदिनापेक्षया मासोऽपि दीर्घकाल इत्युच्यते । वैदेह्याः प्रियं -सन्तोषं आकाङ्क्षन्-- स्वैकालम्बनतया घो नानाप्रकारत वनमागतवत्यास्तद्दुःखस्य उपशमनीयत्वात् चित्रकूटरमणीयताप्रदर्शनेन तस्याश्चित्तं उपलालयन् । स्वं च चित्तं विलोभयन्निति । स्वचित्तस्यापि प्राप्ताभिषेक निवर्तनहान्यादि- खिन्नत्वात् तदप्युपलालयन्नित्यर्थः ॥ १-२ ।। यावत्, न राज्यात् अंशनं, भद्रे ! न सुहृद्भिर्विनाभवः । मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ ३ ॥ विनाभवः— ऋदोत्प् छान्दसः, विप्रयोग इति यावत् ॥ ३ ॥

  • अथ-प्रातः कर्तव्यकर्मानुष्ठानानन्तरं

तोऽपि - गो. + भार्या चित्रकूटं अदर्शयत । • वरप्रिय:- च. पश्येममचलं, भद्रे ! नानाद्विजगणायुतम् । शिखरैः खमिवोद्विद्धैः धातुमद्भिर्विभूषितम् ॥ ४ ॥ खमुद्विद्धैरिति । शीलितादिवत् कर्तरि निष्ठा, वेषकैरिति अलिरित्यर्थः ।। ४ ।। दीर्घकालोषितः -मासमात्रमुषि-