प्रक्षिप्तः सर्ग:] 11 तत्रापश्यत् तदा रामः सीतां काकेन पीडिताम् प्रक्षिप्तः सर्गः [काका सुरवृत्तान्त: रामस्तु नलिनी रम्यां चित्रकूटं च पर्वतम् । उत्तरतु गिरे पादे चित्रकूटस्य राघवः ॥ १ ॥ ददरी कन्दरं रम्यं शिलाधातुसमन्वितम् । सुखप्र से कैस्तरुमि: पुष्पभारावलम्बिभिः || २ || संवृतं च रहस्यं च मत्तद्विजगणायुतम् । तद्दृष्ट्वा सर्वभूतानां मनोदृष्टिहरं वनम् ॥ ३ ॥ उवाच सीतां काकुत्स्थ: वनदर्शन विस्मितः 1 वैदेहि ! रमते चक्षुः तवास्मिन् गिरिकन्दरे ? ॥ ४ ॥ परिश्रमविघातार्थ साधु तावदिहास्यताम् । त्वदर्थमिह विन्यस्ता त्वियं लक्षणसमा शिला ॥ ५ ॥ यस्याः पार्श्वे तरु: पुष्पै: प्रविष्ट इव केसरैः । राघवेणैवमुक्ता सा सीता प्रकृतिदक्षिणा ॥ ६ ॥ उवाच प्रणयस्त्रिग्धं इदं लक्षणतरं वचः । अवश्यकार्य वचनं तव में, रघुनन्दन ! ॥ ७ ॥ बहुशो भ्रमितश्चाथ तव चैवं मनोरथः । एवमुक्ता वरारोहा शिलां तामुपसर्प है ॥ ८ ॥ सह भर्त्राऽनवद्याज्ञी रन्तुकामा मनस्विनी । तामेवं ब्रुवर्ती सीतां रामो वचनमब्रवीत् ॥ ९ ॥ रम्यं पश्यसि भूतार्थ वनं पुष्पितपादपम् । पश्य, देवि ! गिरौ रम्ये रम्पुष्पानिमान् ॥ १० ॥ गजदन्तक्षतान् वृक्षान् पश्य निर्यासवर्षिणः । झिल्लिकाविरुतैः दीर्थैः रुदतीव समन्ततः ॥ ११ ॥ पुत्रप्रियोऽसी शकुनिः पुत्र पुत्रेति भाषते मथुरां करुणां वाचं पुश्व जननी मम ॥ १२ ॥ विइगो भृङ्गराजोऽयं सालस्कन्धसमास्थितः सङ्गीतमिव कुर्वाणः कोकिलेनावकूजति ॥ १३ ॥ अयं वा बालक: कोकिलानां विहनमः | सुखबडमसम्बद्धं तथा ह्येष प्रभाषते ॥ १४ ॥ 295
पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/be/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D_%28%E0%A4%85%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%95%E0%A4%A4%E0%A4%95%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A4%AE%E0%A5%8D%29_%28%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E2%80%93_%E0%A4%85%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83-%E0%A5%A8%29.pdf/page326-856px-thumbnail.pdf.jpg)