पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ सर्गः] [] इत्येवं विहरन् राम: सेनाधूलिं व्यलोकपत् षण्णवतितमः सर्गः [लक्ष्मणसंरम्भः] तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां *मांसेन छन्दयन् ॥ १ ॥ एवं सीतामात्मानं च गिरिनदीदर्शनादिना वीतशोकं संपाद्या- वतिष्ठमानेन रामेण कस्मिंश्चिद्दिव भरतसेनोपलब्धिः । 35 तां तथेत्यादि । गिरे: निम्नगा गिरिनिम्नगा -- मन्दाकिनीति यावत् । मांसेनेति । मांसविशेषप्रदर्शने नेत्यर्थः छन्दयन्– सान्त्वयन् -- लालयन्निति यावत् ॥ १ ॥ इदं मेध्यमिदं स्वादुनिष्टतमिदमग्रिना । एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ २ ॥ तस्यैव प्रकार:- - इदमित्यादि । 'इदं अभिना निष्टप्तं सत् -- तावता स्वादु भवति' इत्येवं वदन्नास्ते इति योजना ॥ २ ॥ 299 1 तथा तत्राऽऽसतस्तस्य ! भरतस्योपयायिनः । सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नमःस्पृशौ ।। ३ ।। 11 311 31931 तथेत्यादि । तथा तत्र गिरिप्रस्थे आसतः - अ -- आसेः छान्दसः 19 शतृप्रत्ययः, आसीनस्येति यावत् तस्य रामस्य पुरस्तात् उपयायिनो भरतस्य सैन्यरेणवः सैन्यशब्दश्चेति उभावपि नमःस्पृशौ प्रादुरास्तां - प्रादुर्बमूवतुः ॥ ३ ॥

  • मांसेन छन्दयन्-वशीकुर्वन्- गो. मांसेन-तापसोपभोग्यफला देना-रा..

। भरतस्यानुयायिनः -ङड.