पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

312 भरत प्रशंसा IV TOT [अयोध्याकाण्ड:" न तु पश्यामि तच्छत्रं पाण्डुरं लोकसत्कृतम् । पितुर्दिव्यं, महाबाहो ! संशयो भवतीव मे ॥ २६ ॥ मे संशयो भवति – छत्रस्या दर्शनात् दशरथागमविषये संशयो जायत इत्यर्थः ॥ २६ ॥ -

2 इतीव रामो धर्मात्मा सौमित्रि तमुवाच ह । वृक्षाग्रादवरोह त्वं कुरु, लक्ष्मण ! मद्वचः * ॥ २७ ॥ इतीव — इत्येव तं- वृक्षाप्रस्थितं सौमित्रि उवाच । - वृक्षाग्रादवरोहणमाज्ञापयति – वृक्षाग्रादित्यादि । मद्वचः कुर्विति । शङ्कां विहाय मदुच्यमानं सालावरोहणं कुर्वित्यर्थः ॥ २७ ॥ अथ अवतीर्य तु सालाग्रात् तस्मात् स समितिञ्जयः । लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ २८ ॥ स एवं प्राप्ताज्ञः लक्ष्मणः अवतीर्य राम्रस्य पार्श्वे तस्थौ ॥२८॥

  1. भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति ।

समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २९ ॥ सम्मो न भवेदिति । रामाश्रमस्येति शेषः ॥ २९ ॥ अध्यमिक्ष्वाकुचमूः योजनं पर्वतस्य सा । पार्श्वे न्यविशदावृत्य गजवाजि' रथ कुला ॥ ३० ॥ अधिकं अर्ध यस्मिन् तत् अध्यर्थं, सार्घयोजनमित्यर्थः ॥

  • न तु धनुरादिग्रहणं कुर्वित्यर्थः । + पार्श्वत:, भ्रातर्यस्थाने भयशङ्कयेति

भाव:- गो. लज्जावहं वाक्यमुक्तवत्यपि रामे सौहार्दाच्च तथा एवं रामलक्ष्मणयो- रवस्थितिमुक्ता भरतप्रवृत्तिमाह — भरतेनापीति । 1 महाभाग-च. 2 अत्र पूर्वोत्तरार्धयोः वैपरीत्यं प्राय: सर्वत्र दृश्यते । 3. नराकुला-च.