पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामाश्रमदर्शनम् [ अयोध्याकाण्ड : स तानि द्रुमजालानि जातानि गिरिसानुषु । पुष्पिताग्राणि मध्येन जगाम वदतां वरः ।। १५ ।। मध्येनेति । दिवछन्दत्वात् एनप्, तद्योगे 'तानि ' इत्यादि- द्वितीया, द्रुमजालानां मध्य इत्यर्थः ।। १५ ।। 316 1 स गिरेश्चित्रकूटस्य ' सालमासाद्य पुष्पितम् ।

  • रामाश्रम' गतस्यान्ते ददर्श 'ध्वजमुच्छ्रितम् ।। १६ ।।

चित्रकूटस्य गिरे: सालं वृक्षमासाद्य आश्रमगतस्य तस्य सालस्य अन्ते - उपरि प्रतिष्ठापितं उच्छ्रितं ध्वजं ददर्श । एवं 'रामाश्रमगतस्यान्ते' इति पाङ्क्ते पाठ योजनाऽशक्तया 'रामाश्रम- गतस्याग्नेः' इति पठित्वा यथेष्टं योजयत्यन्यः + । धूमस्तु पूर्वमेव दृष्टः ।। तं दृष्ट्वा भरतः श्रीमान् ## मुमोह सहबान्धवः । S अत्र राम इति ज्ञात्वा गतः 'पारमिवांहसः ॥ १७ ॥ ,

  • पवित्रस्थ सूचनार्थ तत्रत्योन्नतवृक्षेषु ध्वजारोपणं इदानीमपि कुत्रचिद्देशेषु दृश्यते ।

गोविन्दराजस्तु 'रामाश्रमगतस्याग्नेः ददर्श ध्वजमुच्छ्रितम्' इति पाठमादृत्य — 'अग्नेः ध्वजः–धूमः । पूर्व धूमाग्रदर्शनम्, अधुना तु समीपत्वात् तन्मूलदर्शनमिति न पुनरुक्ति: इति व्याख्यौ ॥ + महेश्वरतीर्थः, गोविन्दराजो वा । मुमोह - मोहसदृशं पारवश्यं प्राप, मुमोदेति च पाठ:-गो. S यद्यपि नाद्यापि पर्णशालादर्शनम्, तत्तु अनन्तरमुर्ग एव (4) वक्ष्यते; अथापि 93 सर्गे “ ते समालोक्य धूमाग्र ऊचुर्भरतमागताः । नामनुष्ये भवत्यग्निः व्यक्तमत्र तपस्विनौ । अथ नात्र नरव्याघ्रौ राजपुत्रो परंतपौ। मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः " इति श्लोकयोः, अत्रत्यस्य “स गिरेः चित्रकूटस्य सालमासाद्य पुष्पितम् । रामाश्रमगतस्याग्ने: ददर्श ध्वजमुच्छ्रितम्' इति श्लोकस्य च परिशीलने- पूर्व रामान्वेषणाय गताः भटा: दूरात् धूमाग्रं वीक्ष्य सामान्याकारण तापससान्निध्यं ज्ञात्वाऽगस्य भरतायोक्तवन्त:, न तु भरतः धूमाग्रादिकं तदा दृष्टवान् । ततः स्वयं प्रस्थायागतो भरतः दूरात् सामान्याकारेणाश्रमं तत्समीपे धूमं च पश्यन् रामलक्ष्मण- स्वभावचेष्टिताद्यभिश:, भरद्वाजोक्तलक्षणसंवादाच्च तं धूमं रामाश्रमगतं मने इति ज्ञायते । अत एव अनन्तरसर्गे 'मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्' (9) इति च वक्ष्यति ॥ 2 गतस्यान्चे: - ङ. च. झ. 1 3 ध्वजमुत्तमम्- ङ.

सालमा रुप-च. मुमोद-व. 5 पारमिवाम्भस:- ङ. च. झ.