पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ सगः ] उपसर्थ्याश्रमं तत्रासीनं राम ददर्श स पतिष्यामि । स्वापराधप्रसादने कनीयस्स्वपि सर्वथाऽनुचितवन्दनेष्वपि प्रणामः प्रसिद्धः –कैकेयीदशरथादौ । रामद्रोह एव लक्ष्मणद्रोहः । एवं व्यवस्थिते श्रद्धाजाड्यात् 'सीतायाश्च पुनःपुनः' इति पाठ इत्याह * ।। १७ ।।

एवं स + विलपस्तस्मिन् वने दशरथात्मजः ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।। १८ ।। सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् । विशालां + मृदुभिस्तीर्णा कुशैर्वेदिमिवाध्वरे ।। १९ ।। साला:- वटपलाशादिदृढविशालपर्णवन्तः : तालाः- प्रसिद्धाः । अश्वकर्णः-सर्जः–GA on LOI to ts ॥ १९ ॥ 5 1 Kisures fice शक्रायुधनि मैश्चैव $ कार्मुकैः भारसाधनैः । रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ।। २० ।। शक्रायुधनिभैः, अत एव भारसाधनैः- अतिगुरुरण कार्य- IFTOPPERE ( साधकः । सारो बले स्थिराशे च ' ॥ २० ॥ अर्करश्मिप्रतीकाशैः’ घारैस्तूणीगतैः शरैः । शोभितां दीप्तवदनैः सर्वैर्भोगवतीमिव ॥ २१ ॥ भोगवती—नागलोकः ॥ २१॥ 32356

  • गोविन्दराजीये एवं पाठान्तरं प्रदर्शितम् । † विलान् सन्, गच्छन्निति शेषः ।

अध्वरे वेदिमिव मृदुभिः कुशस्तीर्णा, अवस्तात् तालादिपणेराच्छाब उपरि तृणायास्तरणेन उटजनिर्माण प्रसिद्धमेव । 8 कामुकेरिति बहुवचनात् अभ्यासयोग्यं कार्मुकान्तरमस्तीति गम्यते । भारसाधनैः – गुर्ववयवैः । यद्वा अतिगुरुतररणकार्य साधनभूतैः । यद्वा भारः – धनु: परिमाणविशेषः । यथोक्तं धनुर्वेदे ईशानसंहितायां- मारं पलशतं विदुः । तेन भारेण चापानां प्रमाणमुपलभ्यते' इति गो. 6 भारवाइन:-अ. 2 धोरेस्तूण-च. 21*