पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५ सर्ग:] बहुधोपदिदेशाथ तत्वानि भरताय स एवं मार्याच पुत्राश्च ज्ञातयच 'धनानि च ।। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः || २७ ।। काष्ठं च काष्ठं चेति । * पोतद्वयमित्यर्थः । कञ्चन कालं – वायुम् । विनाभवः-विप्रयोग इति यावत् ॥ २७ ॥ 391 + नात्र कश्चिद्यथाभावं प्राणी' समतिवर्तते । तेन तस्मिन्न सामर्थ्य प्रेतस्यास्त्यनुशोचतः ॥ २८ ॥ नात्रेत्यादि । अत्र -- संसारे कश्चिदपि संसारिप्राणी यथा- भावं - यथाप्राप्तिखभावं - जनिमृति मृति जनिलक्षणं नातिवर्तते- -न लङ्घयति, तेन-हेतुना, प्रेतस्यानुशोचतः इति षष्ठयार्षी, प्रेतमनु- शोचतश्चापि तस्मिन् – स्खकप्रेतभावनिवर्तने सामर्थ्य नास्त्येव ॥ २८ ॥ यथा हि + साथै गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २९ ।। एवं पूर्वैर्गतो मार्गः 'पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेत् यस्य नास्ति व्यतिक्रमः ।। ३० ।। भावः । च, तथैव + अत्र-अस्मिन् लोके कश्चिदपि बन्धुभिस्सइ न वर्तते । तेन- कारणेन तस्मिन्-मरणनिवारणे सामर्थ्य नास्ति ।

  • काष्ठं - दारुखण्डो वा । अवशपतितं दारुखण्डद्वयं कदाचित् समेति,

कदाचित् विभजते भार्या पुत्रादिसमागमवियोगाविति प्राणी यथाभावं न समभिवर्तते- यथाभिलाषं प्रेतस्य- मृतस्य हेतोः अनुशोचतः पुरुषस्य यदा अस्मिन् लोके कश्चिदपि जन्तुः यथाभावं- यथाभिलाषं-अप्रतिहतसंकल्पतयेत्यर्थः, न समभिवर्तते तेन-एवमप्रति- हतसंकल्पत्वाभावेन प्रेतस्य-मृतस्य हेतोः- गो. अत्र - संसारे कश्चिदपि प्राणी .... यथाभावं यथाप्राप्तं स्वभावं मृतिजनिलक्षणं न समतिवर्तते-न लयति। तेन हेतुना प्रेतस्य, सम्बन्धसामान्ये षष्ठी, प्रेतमनुशोचतोऽस्य तस्मिन्- स्वीयप्रेतभावनिवर्तने सामर्थ्य मास्ति- त्रि. + सार्थ - पथिकसमूहं - गो. 1 वसूनि च-च. 2 समभिवर्तते-कु. पितृपैतामहै:- कु. पैतृपितामहै: च.