पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रार्थना [ अयोध्याकाण्ड : ननु स्वशरीरप्रयाससाध्य एव धर्मः अन्तरङ्गः, अतस्तदेवानु- अथशठः पक्षान्तरे ॥ २१ ॥ ष्ठेयमिति पक्ष आह - अथेत्यादि । A चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्टमाश्रमम् । प्राहुः, धर्मज्ञ धर्मज्ञाः तं कथं त्यक्तुमर्हसि ॥ २२ ॥ ननु शरी` क्लेशजस्वमात्रमप्रयोजकम् | अपि तु श्रुतत्वाद्धर्मस्वं बनाश्रमस्थेत्यत्राह – चतुर्ण मित्यादि । श्रेष्ठमाहुरिति । ‘तेषां गृहस्थो योनिः, अप्रजनत्वादितरेषाम्' इत्यादिभिः - गौतमादयो धर्मशास्त्र- प्रवक्तार इति शेषः । यथावद्गार्हस्थ्यानुपपत्तौ बनाश्रमाद्यपेक्षा, न तु तदुपत्ता विउरापेक्षेत्याशयः ॥ २२ ॥ HOFST , थुतेन बाल: *स्थानेन जन्मना 'भवतो ह्यहम् । स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २३ ॥ भवतोऽपेक्षयाऽहं श्रुतेन बाल:- अवरः । तथा जन्मना संपादितेन स्थानेन – प्रथमस्थानेन च ॥ २३ ॥ हीनबुद्धिगुणो बालः हीनः स्थानेन चाप्यहम् । भवता च विनाभूतः न वर्तयितुमुत्सहे ॥ २४ ॥ हीनः स्थानेन चापीति | उपलक्षित इति शेषः । वर्तयितुं – जीवितुं, 'वृत्तिर्वर्तनजीवने' ।। २४ ।। इदं निखिल मव्यग्रं राज्यं पित्र्यमकण्टकम् | अनुशाधि स्वधर्मेण, धर्मज्ञ ! #सह बान्धवैः ॥ २५ ॥ -

  • स्थानेन – पदेन, प्राप्तिकमेगेति यात्रव-गो. अत्र हेतु: 'जन्मना' इति

इति भावः । + हीनबुद्धिगुगः - सद्भुणबुद्धिरहितः गो. बुद्धया गुणादिभिश्च न्यून इति वा सह–संभूय - गो. 1 मिच्छसि च. ज्ञानेन-ङ, 3 अवतोऽप्यहम्-ड. मध्यप्रयंच.