पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नात्र धर्माच्युतिस्तेऽस्ति गुरोर्मम वचः शृणु स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य' विहन्तुमर्हसि । प्रभूतरत्नामनुशाधि मेदिनीं 'प्रभूतराष्ट्रां पितृवन्महायशाः ।। ३७ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे दशोत्तरशततमः सर्गः १११ सर्गः] 439 सः स्वं कुलक्रमागतज्येष्ठ मिषेक धर्म विहन्तुं - विनितुम् । प्रभूतराष्ट्रां— प्रभूतावान्तरदेशवतीम् । सर्ग (३७) मानः सर्गः ॥ ३७ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे दशोत्तरशततमः सर्ग: एकादशोत्तरशततमः सर्गः [भरतप्रायोपवेशः] स वसिष्ठः तदा रामं उक्ता राजपुरोहितः । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ।। १ ।। पुनश्च वसिष्ठेन भरतेन च धर्मन्यायावलम्बनेनैव प्रवर्त्यमानप्रति- निवर्तनोऽपि रामः स्वसत्यमेव परिगृह्णाति । स वसिष्ठ इत्यादि ॥ १ ॥ + पुरुषस्येह जातस्य भवन्ति गुरवः त्रयः । आचार्यश्चैव, काकुत्स्थ ! पिता माता च, राघव ! ॥ २ ॥ गुरव इति । उपास्या इत्यर्थः ॥ २ ॥ ★ प्रभूतराष्ट्री- बहुबिधावान्तरजनपदयुक्ताम्- गो. एवं कुलथमोपगद पि सबै तत् पितृनियोगव्यतिरिक्तविषयमिति मत्वा सूष्णीं स्थितस्य रामस्याशयं जाननू वसिष्ठः पुनः निवर्सन हेस्वन्सर माइ – पुरुषस्येत्यादिना-गो. 2 सदा-च. 1 बिहासु- ङ.