पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११ सर्ग:] | अन्ते तु भरत: प्रायोपवेशनमथाकरोत्

निराहारो * निरालोकः धनहीनो यथा द्विजः । 1 'शेष्ये पुरस्ताच्छालायां ' यावन्मां प्रतियास्यति ॥ १४ ॥ आर्य प्रत्युपवेक्ष्यामीति । आर्यमुद्दिश्य प्रत्युपवेशनकर्म करिष्य इत्यर्थः । तच्च उपरोद्धव्यस्य गृहद्वारपुरः कुशेषु यावत्कार्यसिद्धि निराहारतया एकपार्श्वेनैव पार्श्वान्तरपरिवृत्तिराहित्येन शयनम् ।। १३-१४ ॥ स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः । कुशोत्तरमुपस्थाप्य भूमावेवा' स्थित स्वयम् ॥ १५ ॥ 443 --- स तु - भरत इत्यर्थः । राममवेक्षन्तमिति । रामनियोगं प्रतीक्षमाणं, उद्वशात् कुशानयने विलम्बमानमित्यर्थः । कुशोत्तरं- कुशश्रेष्ठं स्वयमेवोपस्थाप्य भूमौ आस्थित-लिङ्, ' स्थाध्वोरिच' इतीत्त्वम्, प्रत्युपवेशनमनुष्ठितवानित्यर्थः ॥ १५ ॥ तमुवाच महातेजाः रामो राजर्षिसत्तमः ।

  1. किं मां, भरत ! कुर्वाणं, तात ! प्रत्यु' पवेक्ष्यसि ।। १६ ।।

किं कुर्वाणमिति । किमन्याय्यं कुर्वाणमित्यर्थः ॥ १६ ॥ ब्राह्मणो ह्येकपार्थेनS नरान् रोद्धुमिहार्हति । न तु मूर्धा भिषिक्तानां विधिः प्रत्युपवेशने ॥ १७ ॥

  • निरालोकः – अवकुण्ठिताननः । धनहीन:-श्रृद्धयर्थ ऋणप्रदानान्निर्थन:- गो.

+कुशतरं- कुशास्तरणं उपस्थाप्य आनीय स्वयमेवास्तरत् -- आस्तृणात्- शयनं कृतवानित्यर्थ:- गो. किं कुर्वाणं- किमपकारं कुर्वणम्- गो. 5 एकपाश्चेन- एकपार्श्व शयनेन - गो. 1 शये-च. यावश-ङ, 3 स्तरत-डं. 4 पवेक्ष्यसे-च. 5वसिकानां - ड