पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

446 भरतप्रायोपवेशः धर्मात्मा तस्य 'सत्येन आतुर्वाक्येन विस्मितः । उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् ॥ २७ ॥ सस्म - भरतस्य ॥ २७ ॥ [अयोध्याकाण्ड: विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २८ ॥ विक्रीतमित्यादि । जीवता मम पित्रा यत् विक्रीतं - स्वीयस्य वस्तुनः किञ्चिन्मूल्यं गृहीत्वा दानं विक्रयः । क्रयस्तु अन्यदीयवस्तुनो मूल्यं दत्त्वा आदानम् । आधिरूपेण निहितं क्षेत्रादिकं - आहितम् । तत्सर्वं मया भरतेन वा लोपयितुं न शक्यम् ॥ २८ ॥ -

  • उपाधिर्न मया कार्यः वनवासे जुगुप्सितः ।

युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २९ ।। अस्तु, किं तत इत्यतः - उपाधिरित्यादि । पित्रा अनुष्ठेय- विहिते बनवासे क्रीतादितुल्ये मया जुगुप्सित उपाधिः - खाशक्या- नुष्ठानेन प्रतिनिध्यनुष्ठापनं उपाधिः, मुख्ये पक्षे संभवति गौणाश्रयणतो न मया संपाद्यः । कैकेय्या च युक्तमेवोक्तम्, वररूपर्णापाकरणार्थ- त्वात् मत्पितुः । मया च तद्वचनमेव कार्यं, तस्याः -मातुः, तस्य — पितुश्चेत्यर्थः ॥ २९ ॥ 2 जानामि भरतं ' क्षान्तं गुरुसत्कारकारिणम् | सर्वमेवात्र कल्याणं | सत्यसन्धे महात्मनि ॥ ३० ॥ क्षान्तं – क्षमायुक्तम् । अत्र - भरते ॥ ३० ॥ -

  • अल्पेन व्याजेन स्वीकृतभरात् प्रच्युतिः न युक्तत्यर्थः । तदिदं मद्दौर्बल्यहेतुक

मेव किल स्यात् । अतः जुगुप्सितमिदम् इति भावः । + कल्याणं जानामीत्यनुकर्षः । 12 शान्तं-ङ. तथ्येन-ङ.