पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सर्ग:] | ययाचेऽन्ते तु भरतः रामं राज्याय पादुके

'तमङ्के 'भ्रातरं कृत्वा रामो वचनमब्रवीत् । श्यामं नलिनपत्राक्षं मत्तहंस 'स्वरः स्वयम् ।। १५ ।। स्वयं अङ्के कृत्वेति योजना ।। १५ ।। आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या । भृशमुत्सहसे, तात! रक्षितुं पृथिवी मपि ॥ १६ ॥ इयं बुद्धिरिति । मद्वनवासाविरुद्धा स्वीयतया स्थापन- विषयिणी येयं बुद्धिरागता, इयमेव ते स्वजा - स्वाभाविकी, वैनयिकी- गुरुसेवया सिद्धा विनयमूला च । अथ या अशक्तिरुक्ता भरतेन स्वस्य, सा नास्त्येवेत्याह – भृशमित्यादि ॥ १६ ॥ + अमात्यैश्च सुहृद्भिश्व बुद्धिमद्भिश्व मन्त्रिभिः | सर्वकार्याणि संमन्त्र्य महान्त्यपि च कारय । १७ ।। कारयेति । मदाज्ञयेति शेषः ॥ १७ ॥ लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ॥ १८ ॥ 451 अथ मातुश्च याचनयाऽपि इदानीमागमनमशक्यमित्याह - लक्ष्मीरित्यादि ॥ १८ ॥

  • स्वप्रपदनस्यामोघत्वात् तदानीं पूर्वकृतदेवसंघशरणागति फलप्रदान प्रवृत्यनुकूल-

पितृवचनपरिपालनावरुद्धावसरतया तन्निर्वर्तनानन्तरं फलं प्रदित्सुः सान्त्वपूर्वमकुमारोपयति-गो. ↑ अमात्यैः – प्रधानसचिवैः। •मन्त्रिभिः- गो. वस्तुतस्तु -- अमात्याः कर्मसचिवाः । मन्त्रिण: - धीसचिवाः । नावद्विलम्बसहनाय मन्त्रिमिः - उप- 1 भरतं-ङ. 2 स्वरं ङ. मिमाम् ङ.. 29*