पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

452 पाहुकरणम् [अयोध्याकाण्ड: कामाद्वा, वात ! लोमाद्वा मात्रा *तुभ्यमिदं कृतम् । न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥ १९ ॥ कामात् – स्वद्द्रुतस्नेहात् । लोभात् - राज्यलोभात् । तुभ्यं मात्रा — तब मात्रेति यावत् । सर्वथा इह चतुर्थ्यर्थे 'बहुलं छन्दसि' इते बहुलग्रहणात् षष्ठ्यर्थेऽपे चतुर्थी, यदिदं कृतं - स्वदनिष्टनेव कृत्यं कृतं, तन्मनसि न कर्तव्यं ; दैवाधीनत्वात् । अतः मातृवदेव वर्तितव्यं, तस्यां शुश्रू नित्या पतिवायामपि' इति शास्त्रात् ॥ १९ ॥ एवं ब्रुराणं मरतः कौसल्या सुतमन्त्रवीत् । तेजमाऽऽदित्य संकाशं । प्रति वच्चन्द्रदर्शनम् ॥ २० ॥

  1. अधिरोहार्य ! पादाभ्यां पादुके हेमभूषिते ।

एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ २१ ॥ हे आर्य ! हेममूषित पादुके अविरोध | कि प्रयोजनमित्य- क्षायामाह-एत इत्यादि । राजासनसन्निहिते इति शेषः ॥ २१ ॥ सोऽधिरुह्य नरव्याघ्रः पादुके 'व्यवमुच्य च । प्रायच्छत् सुमहातेजाः भरताय महात्मने ॥ २२ ॥ स रामः पादुके अधिरुह्य व्यवमुच्य – अवरुद्ध भरताय प्रायच्छत् । एवं भरतभद्रासनस्थापनीयपादुकयोः स्खप्रतिनिधिमूतयोः

  • तुभ्यं – स्वदर्थम् । +पुण्यदर्शनस्खे दृष्टान्तोऽयम् । + अथ मध्यस्थेन

उमपतिपरेण वसिष्टेन नियुको भरतः प्रार्थयते - अधिरोहेत्यादिना । अत एव भरद्वाजं प्रति भरतो वसिष्ठोक्ति मनुवदिष्यति — 'एते प्रयच्छ संहृष्ट पादुके हेमभूषिते ' (113-12) इति-गो. अनारसर्वस्य 11-12 कोको टिप्पणी च द्रष्टव्या । च-ड.