पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

456 भरतप्रस्थागमनम् अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । 2 आश्रमं यत्र स मुनिः भरद्वाजः कृतालयः ॥ ५ ॥ स तमाश्रम 'नागम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे ' भरतस्तदा ॥ ६ ॥ ततो हृष्टो भरद्वाजः भरतं वाक्यमत्ररीत् । अपि कृत्यं कृतं, तात! रामेण च ' समागतम् ॥ ७॥ 4 कृत्यं - कर्तव्यं कर्म कृतमपि ? अपिः प्रश्न । तदपि कृत्यमाह - रामणेत्य. दि || ७ || 6 एवमुक्तः स तु ' ततः भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजं भरतो ' भ्रातृवत्सलः ।। ८ ।। +स याच्यमानो गुरुणा मया च दृढविक्रमः । राघवः परमप्रीतः वसिष्ठं वाक्यमब्रवीत् ॥ ९ ॥ परमप्रीत इति । पितुः सत्यपरिपालनविषय इति शेषः ॥ ९ ॥ पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्वतः | चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।। १० ।। [अयोध्याकाण्ड:

  • अदूरादिति । चित्रकूटसौन्दर्यदर्शनाकृष्टचित्ततया अदूरादिव भाममानम्-गो.

यत्र – यमुनादक्षिणकू, अतं एत्र चित्रकूटस्थादूरादिति। अनेन यमुनादक्षिणतरेऽपि क्वचित् भरद्वाजाश्रम इति ज्ञायते । अत एवाये भरद्वाजामन्त्रणोत्तरं 'ततस्ते यमुनां 'तीर्त्वा' इति वक्ष्यति-ति. उत्तरत्र 21 श्लोकटिप्पणी द्रष्टव्या | +किं रामेण समागतम् ? भवदिष्टं न साधितम् ? इति प्रश्नइयं वा । +रामनिष्ठायाः न्याय्यत्वात् आशातुमशक्कथा 'गुरुणा याच्यमानः' इति । मासाथ-ड.. 5 तदा - ड.. 2 वीर्यवान् च. कुलनन्दनः-- च. " धर्मबलः- च. 3 समागतः - ङ,