पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३ सर्ग:] गत्वा सुदूरमध्वानं अयोध्यां पुनराप स:

यानैश्च शकटैश्चैव हयैर्नागैश्व सा चमूः । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २० ॥ 'ततस्ते यमुनां दिव्यां नदीं तीत्वर्मिमालिनीम् । ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् ॥ २१ ॥ यमुनां तीर्खा गङ्गां ददृशुरिति । यमुनां तीर्खा, तस्मिन्नेव दिवसे भरद्वाजं च दृष्ट्वा गङ्गां च ददृशुरित्यर्थः ॥ २१ ॥ 2 तां रम्यजलसंपूर्णां सन्तीर्य सहबान्धवः । शृङ्गबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २२ ॥ भृङ्गिवेरपुरात् भूयः अयोध्यां संददर्श ह । भूय अयोध्यामिति छान्दसम् ॥ २२ ॥ 459 अयोध्यां तु तदा दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् || २३ ।। भरतो दुःख सन्तप्तः सारथिं चेदमब्रवीत् । सारथे ! पश्य विध्वस्ता अयोध्या न प्रकाशते ॥ २४ ॥ + निराकारा निरानन्दा दीना प्रतिहतस्वना । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः विध्वस्ता — विध्वस्तशोभा । निराकारा-निरलङ्कारा । अवर- (२४१ / २) मानः सर्गः ॥ २४१/२ ॥ इति श्रीमद्रामायणामृत कनकटीकायां अयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः

'भरतमनुसृत्य सेनानुयानप्रकारमाह-तत इति । यमुनां तीर्त्वा गच्छन्तस्ते सवें गङ्गां ददृशुरिति सम्बन्ध:- गो. यमुनां तीर्त्वा तस्मिन्नेव दिने भरद्वाजं दृष्ट्वा गङ्गां ददृशुरित्यर्थ इति कश्चित् । सत्तु पूर्वोत्तरीत्या असामञ्जस्यात् हेयम्-ति. + निराकारा - निर्गत शोभना कारा-गो. 1 शुभजला-ङ. 2 रम्यां तां जल-ऊ.