पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९ सर्गः]
21
श्रुत्वैतद्वचनं दीनः राजा सूतमथाब्रवीत्


आयतैर्विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः
अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः ॥ १३ ॥
[१] नामित्राणां न मित्राणां उदासीनजनस्य च ।
अहमार्ततया किञ्चित् [२]विशेषमुपलक्षये ॥ १४ ॥

 नामित्राणामित्यादि । अस्मदाद्यपेक्षयेति शेषः । न तु अमित्रकथासम्भवो रामस्य । कैकेय्यपि रामाभिषेकश्रुतौ प्रथमं भूषणं किल ददौ । सा तु पश्चादिन्द्रादिदैवहता । अर्ततयेति । स्थिताविति शेषः ॥ १४ ॥

अप्रहृष्टमनुष्या च दीननागतुरङ्गमा ।
आर्तस्वरपरिम्लाना [३]विनिश्वसितनिस्स्वना ॥ १५ ॥
निरानन्दा, महाराज ! रामप्रव्राजनातुरा ।
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मे ॥ १६ ॥

 पुत्रहीना - पुत्रवियुक्ता कौसल्येव ॥ १६ ॥

सूतस्य वचनं श्रुत्वा वाचा परमदनिया ।
बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ १७ ॥


  1. अमित्राणां, तवेति शेष:-गो. परन्तु ते यदि रामे नामित्राणि तर्हि आतत्वं
    युक्तमेव । किञ्च सर्वेषां रामगुणाकृष्टत्वेन तस्य शत्रुरेव नास्ति चेत्, तर्हि उदासीनो वा
    कश्चित् कथम् ? अतो यथाश्रुतार्थं एव युक्त: । सन्त्येव सर्वत्र सर्वदा सत्यविद्वेषिणः,
    त्रिगुणात्मकत्वात् जगतः । तत्र मित्राणि सात्विकाः, उदासीनानि राजसाः, अमित्राणि
    तामसा: । अमित्रादयोऽप्यवशादेव आर्ता बभूवुरिति भावः ।
  2. विशेषं नोपलक्षये-ङ. च.
  3. विनिश्वसितनिस्स्वना । विगतं निश्वसितं यस्यामवस्थायां-मूर्छावस्थेत्यर्थः, तद्वत् निस्स्वना ।
    मूर्छितेव निस्स्वनेति यावत् ।