पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ सर्ग:] निर्गते भरते राम: उवास मुनिमिस्सह — औत्सुक्यं – स्थानान्तरगमनौत्सुक्यं च लक्षयामास । अयं व्यापारो भरतनिवृत्त्यनन्तरमपि बहुकालात् परम् ॥ १ ॥ 473

  • ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।

राममाश्रित्य निरताः तानलक्षयदुत्सुकान् ॥ २ ॥ तदेव प्रदर्श्यते – ये तत्रेत्यादि । तापसाश्रम इति पुस्तात - पूर्व ये तापसाः चित्रकूटस्य सम्बन्धिान तत्राश्रमे राममाश्रित्य निरताः - प्रतिष्ठिताः, अलक्षयत् – देशान्तरगमनोत्सुकानित्यर्थः ॥ २ ॥ मन्त्रिगर्ष तान् उत्सुकान् नयनै भ्रूकुटीभित्र रामं 'निर्दिश्य + शङ्किताः । अन्योन्यमुपजलपन्तः शनैश्चक्रुर्मिथः कथाः ॥ ३ ॥ कथमलक्षयदित्यतः - - नयनै रित्यादि । शनैः – उपांशु । कथाश्चक्र रिति । अयं रामः इहाश्रमे सस्त्रीको वर्तते । राक्षसा एतत्पीडार्थमिह सञ्चरन्तः अस्मानपि बाघन्ते । अतोऽवश्यं हित्वेममाश्रमं गन्तव्यं-इत्येवमात्मिकाः कथाः ॥ ३ ॥ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि +2 शङ्कत | कृताञ्जलिरुवाचेदं ऋषि कुलपतिं ततः ॥ ४ ॥

  • अत्रेद बाध्यम् – चैत्र शुक्ल दशम्यां पुष्ये रामवनप्रस्थानम् । ततः पूर्णिमायां

अर्धरात्रे दशरथमरणम् । तत: पक्षेण भरतागमनमयोध्यायाम् । तत और्ध्वदेहिकेन पक्षो गतः । एवं वैशाखे गते ज्येष्ठे भरतस्य चित्रकूटं प्रति प्रस्थानम् । अग्रे वर्षाकाले सन्निहिते सति कार्तिक्यन्तं चित्रकूटे वास: । तदनन्तरं तापसौत्सुक्यलक्षणम् । न तु भरतनिवृस्यनन्तरमेवैतत्-इति तिलके उक्तं, प्रदर्शितञ्चोक्तायें प्रमाणं पाद्मपुराणम् ॥ + शङ्किता:- राम: कि संस्थत इति शङ्किता:-ति. + शकत-अशङ्कत-ति. । उद्दिश्य-ड.. 2 शङ्कित:-ड..