पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ सर्ग:] सस्त्रीकस्य तु रामस्य भयाधिक्यमसूचयन्. 'अवक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा । कलशांश्च प्रमृद्गन्ति हवने समुपस्थिते ।। १७ ।। अवक्षिपन्ति — अवस्कन्दयन्ति । सुग्भाण्डान्–स्रुङ्मुखयज्ञ- संभारान् । कलशान्– उदकपात्राणि । हवने–यागे ।। १७ ।। तैर्दुरात्मभि'राविष्टान् आश्रमान् 'प्रजिघांसवः । गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ॥ १८ ॥ प्रजिघांसव इति । हन्तिरिह गत्यर्थः–' अज्झनगमां सनि' इति दीर्घः, 'अभ्यासाच्च' इति कुत्वम्, परित्यक्तु मेच्छव इत्यर्थः । चोदयन्तीति । मामिति शेषः ॥ १८ ॥ , 477 तत्पुरा, राम ! *शारीरीं उपहिंसां तपस्विषु । दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ १९ ॥ शारीरी - शरीरसम्बन्धिनी उपहिंसां तपस्विषु दर्शयन्ति पुरा, ' यावत्पुरा' इति लट्-दर्शयिष्यन्तीति यत् ; ततः – तस्मादेव इमं आश्रमं त्यक्ष्यामः ॥ १९ ॥ बहुमूलफलं चित्रं अविदूरादितो 'वनम् । +° अवस्याश्रममेवाहं 'श्रयिष्ये सगणः पुनः ॥ २० ॥

  • एतावता विप्रकरणमात्रं, क्रमशः विनाशायापि यावन्न प्रवर्तेरन् तावदेवान्यत्र

गच्छाम इति भावः । शरीरनाशमंपि अल्लं मन्यमान आह - उपहिंसामिति । + 'पुराणाश्रमं' इति पाठे-चित्रकूटे रामनिवासं ज्ञात्वाऽत्रागता ते इति ज्ञायते । 2 रामृष्टान्- ङ. कण्वस्याश्रम, पुराणाश्रम- कु. 1 अवक्षिपन्त्यसृग्भाण्डान्-ङ. ● मिथ:- कु. 5 ऽपरम्-ङ. 6 " 3 प्रजिहासवः - ङ.. 7 गमिष्ये - ङ..