पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
32
[अयोध्याकाण्डः
दशरथोपालंभः


अन्तर्ज्ञात्वाऽपि दुःखातिशयाल्लौकिकाश्रयेण राजानमुपालभते । वनं गत इत्यादि । सा-- कौसल्या आर्ता- खिन्ना सती ॥ १ ॥

 [१] यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः ।
सानुक्रोशो वXन्यश्च प्रियवादी च राघवः ॥ २ ॥

 इति ते महद्यशः प्रसिद्धमिति योजना ॥ २ ॥

कथं, नरवरश्रेष्ठ ! पुत्रौ तौ सह सीतया ।
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ ३ ॥

 अथापि हे नरवरश्रेष्ठ ! राघवः-रघुकुलजः स त्वं सीतया सह तौ पुत्रौ कथं त्यक्तवानिति शेषः । कथं सहिष्यत इत्यनुकृष्य योजना ॥ ३ ॥

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता ।
कथमुष्णं च शीतं च मैथिली प्रसहिष्यते ॥ ४ ॥
भुक्त्वाऽशनं विशालाक्षी सूप[२] दंशान्वितं शुभम् ।
वन्यं नैवारमाहारं कथं सीतोप[३]भोक्ष्यते ॥ ५ ॥

 सूपदंशान्वितं-शुभव्यञ्जनान्वितम् । नैवारं-नीवारसम्बन्धि ||


  1. ‘ प्रथितं' इत्यनेन पूर्वतनत्वं, तेन एवं कीर्तिं संपाद्यापि कथमिदानीमिदमकार्यं
    कृतमिति च सूचितम् । अथ वा रामप्रव्राजनस्य वृत्तत्वात्, तेन स्वसत्यप्रतिज्ञत्वस्य
    प्रकटितत्वाच्च । 'भवद्यशः प्रथितं, परन्तु तौ क्लेशं कथं सहिष्यतः ? भवद्यशसः कृते तौ
    त्वया नाशितौ किल' इत्यर्थः ॥
  2. दंशः - उपसेचनम् ।
  3. भोक्ष्यति- ङ.